________________
श्रीप्रमेयरनकोषः ।
रोऽसंनिहितोऽपि यदि घटः स्यात्, पटादीनामपि स्याद्धटत्वप्रसङ्गः। अथवा चैतन्यशक्तेवाकारौ । ज्ञानाकारो ज्ञेयाकारश्च । अनुपयुक्तप्रतिबिम्बाकारपरिणतादर्शतलवज्ज्ञानाकारः, उपयुक्तप्रतिबिम्बाकारपरिणतादर्शतलवज्ञ5 याकारः। तत्र ज्ञेयाकारः स्वात्मा तन्मूलत्वाद्बटव्यवहारस्य, ज्ञानाकारः परात्मा, सर्वसाधारणत्वात् । स घटो ज्ञेयाकारेणास्ति, नान्यथा। यदि ज्ञेयाकारेणाप्यघटः स्यात् , तदाश्रये कर्तव्यतानिरासः स्यात् । अथ ज्ञानाकारेणापि
घटः स्यात् , पटादिविषये ज्ञानाकारकालेऽपि तत्संनिधा10 नाद्धटव्यवहारवृत्तिः प्रसज्येत । उक्तैः प्रकारैरर्पितं घटत्वं
चाघटत्वं च परस्परतो न भिन्नम् । यदि भिद्येत सामानाधिकरण्यं तद्बुद्ध्यभिधानानुप्रवृत्तिर्न स्यात्, घटे पटवत् । ततश्चेतरेतरविनाभाव उभयोरप्यभावात्तदाश्रयव्यवहारापह्नवः कृतः स्यात् । अतस्तदुभयात्मकोऽसौ क्रमेण तच्छ15 ब्दवाच्यतामास्कन्दन्स्याद्धटश्चाघटश्चेत्युच्यते । यदि तदु
भयात्मकं वस्तु घट एवेत्युच्यते, इतरात्मासंग्रहादतत्त्वमेव स्यात् । अथाघट एवेत्युच्यते । घटात्मनानुपादानादनृतमेव स्यान्न वस्तुता तावदेवेति । न चान्यः शब्दस्तदुभयात्मावस्थातत्त्वाभिधायी विद्यते । असौ घटवचनगोच20 रातीतत्वात्स्यादवक्तव्यो घट इत्युच्यते । घटात्मार्पणमुखेनोक्तावक्तव्यस्वरूपनिरूपणेन चापदिश्यमानः स एवार्थ इति स्याटश्चावक्तव्यश्चेति । निरूपिताघटभङ्गासङ्गने प्रदर्शितावक्तव्यधर्मेण चापदिश्यमानः स एवार्थ इति स्यादघटश्चावक्तव्यश्च । तदुभयाभिधानक्रमार्पणप्रदर्शिता25 वक्तव्यधर्मवशाविर्भूततयपदेशः स एवार्थः स्याटश्चाघटश्चावक्तव्यश्च भवतीत्येवं सप्तभङ्गी सर्ववस्तुन्यवतरति ॥२॥
1 B प्रकारैरपि तत्