________________
श्रीप्रमेयरनकोषः।
[ III] [ अथोत्पादव्ययध्रौव्यात्मकं वस्तु ] उत्पादस्थितिभङ्गवत्पदार्थसंसिद्ध्यर्थमिदं प्रकरणमारभ्यते । वस्तु नामोत्पादव्ययात्मकं वा स्यात् , ध्रौव्यात्मकं वा स्यात् , उत्पादव्ययध्रौव्यात्मकं वा स्यादिति विकल्पत्रय-5 मवतरति। यद्युत्पादव्ययात्मकं, तत्रापि किं सर्वथोत्पादोऽथ कथंचिदिति पक्षद्वयं भाव्यते' । यदि सर्वथोत्पादः, यथा घटपर्यायस्योत्पादस्तथा प्रतीयमानस्यापि मृद्रव्यस्योत्पादः समापनीपद्यते । अत उत्पादोऽपि प्रागसत इदानीमात्मलाभस्ततश्चोत्पाद्यत इति कोऽर्थः । इदानीमात्मानं 10 प्रतिलभते न प्रागित्ययमर्थः । एवं च सति यथोत्पद्यमानत्वान्मृत्पिण्डकारणे घटस्य प्रतीतिर्नास्ति, एवं मुद्रव्यस्यापि प्रतीतिर्न स्यात् । प्रतीयते च मृद्रव्यम् । ततो निश्चिनुमो वयं “ केनचिद्रूपेणोत्पादः” इति । येन रूपेणोत्पादः, न तद्रूपं ध्रौव्यं भवति । तदपि मृद्रव्यम् । न चोत्पद्यमाने 15 घटे मृद्रव्यमुत्पद्यमानं सर्वात्मना प्रतीयते, न च कुम्भकारः "चक्रदण्डमृत्पिण्डादिना हेतुकलापेन मृत्पिण्डमुत्पादयामि" इति चेष्टते, किंतु घटोत्पत्त्यर्थमेवासौ प्रयासं करोतीति । ततः कथंचिदुत्पादपर्यायरूपेणोत्पादः, न द्रव्यरूपेण । तथा विनाशोऽपि कथंचिदेव । यदि च सर्वथा विनाशो 20 भवेत् , यथा घटस्य विनाशः, तथा मृद्रव्यस्यापि विनाशः समुपजातः । तथा च यथा नष्टत्वात्कपालेषु घटप्रतीतिनास्ति, एवं मृद्रव्यस्यापि प्रतीतिर्न स्यात् । प्रतीयते च मृद्रव्यम् । ततोऽध्यवस्यामः "केनचिद्रूपेण विनाशः" इति । येन रूपेण विनाशः, न तद्रौव्यमिति । तदपि च मृद्रव्यम् । 25 न च मृत्पिण्डविनाशान्मृद्रव्यस्यापि विनाश इति । न च
1 A संभाव्यते 2 A कारणघटस्य