________________
श्रीप्रमेयरत्नकोषः ।
1
राभावात् । अथ तस्मिन्प्रत्युत्पन्नविषये रूपादिसमुदाये पर - स्पराकारानुवर्तिनि पृथुबुनाद्याकारः स्वात्मा, इतरः परात्मा । तेन पृथुनाद्याकारेण घटोऽस्ति, नेतरेण, घटव्यवहारस्य तद्भावे भावात, तदभावे चाभावात् । यदि हि पृथुबुनाद्यात्मनापि घटो न स्यात्, सर्वत्रैव स न स्यात् । अथेतरा - 5 त्मनापि घटः स्यात्, तदाकारशून्येऽपि घटव्यवहारः प्राप्नुयात् । अथवा रूपादिसंनिवेशविषयसंस्थानो घटः, तत्र चक्षुषा घटो गृह्येत । एतस्मिन्व्यवहारे रूपमुखेन घटो गृह्यत इति रूपं स्वात्मा, रसादिः परात्मा । स घटो रूपेणास्ति, नेतरेण रसादिना, प्रतिनियतकरणग्राह्यत्वात् 110 अन्यथा चक्षुषायं घटो गृह्यत इति रसादिरपि घट इति गृह्येत सर्वेषां रूपस्वरूपत्वप्रसङ्गः । ततः कारणान्तरकल्पनानर्थिका । यदि वा रसादिवद्रूपमपि घट इति न गृह्यते, चक्षुर्विषयतास्य न स्यात् । अथवा शब्दभेदे ध्रुवोऽर्थभेदो भवतीति घटकुटादिशब्दानामप्यर्थभेदः, घटनाद्वटः, 15 कौटिल्यात्कुट इति तत्क्रियापरिणतिक्षण एव तस्य शब्दस्य प्रवृत्तिर्युक्ता । तत्र घटनक्रियाविषयः कर्तृभावः स्वात्मा, इतरः परात्मा । तत्राद्येन घटो नेतरेण, तथार्थसमभिरोहणात् । यदि च घटनक्रिया परिणतिमुखेनाप्यघटः स्यात्, तद्व्यवहारनिवृत्तिः स्यात् । यदि चेतरव्यपेक्षयापि घटः स्यात्, 20 पटादिष्वपि तत्क्रियाविरहितेषु तच्छब्दप्रवृत्तिः स्यात्, एकशब्दवाच्यता वा वस्तुनः स्यात् । अथवा घटशब्दप्रयोगानन्तरमुत्पद्यमान उपयोगाकारः स्वात्मा, आदेयत्वादन्तरङ्गत्वाच्च; बाह्यो घटाकारः परात्मा, तदभावेऽपि घटव्यवहारदर्शनात् । स घट उपयोगाकारेणास्ति, नान्येन । यदि ह्युप- 25 योगाकारात्मनाप्यघटः स्यात्, वक्तृश्रोतृहेतुफलभूतोपयोगघटाकाराभावात्तदधीनो व्यापारो विनाशमुपेयात् । इत
1 BC at