________________
श्रीप्रमेयरत्नकोषः। स परात्मा, पटादिः । स्वपरात्मोपादानापोहनव्यवस्थाप्यं हि वस्तुनो वस्तुत्वम् । यदि खात्मोपादानपरिणतौ पटाद्यात्मव्यावृत्तिर्न स्यात् , सर्वात्मना घट इति व्यपदिश्यते । अथ परात्मव्यावृत्तौ स्वात्मोपादानपरिणतिर्न स्यात, 5 खरविषाणादिवदवस्त्वेव स्यात् । अथवा नामस्थापनाद्रव्यभावेषु यो विवक्षितः, स खात्मा, इतरः परात्मा । अत्र विवक्षितात्मना घटो नेतरात्मना । यदीतरात्मनापि घटः स्यात्, विवक्षितात्मना वाघटो नामादिव्यवहारोच्छेदः स्यात् । अथवा विवक्षितशब्दवाच्यसादृश्यसामान्यसंब10न्धिषु कस्मिंश्चिद्धटविशेषे परिगृहीते प्रतिनियतो यः संस्था
नादिः स स्वात्मा, इतरः परात्मा । तत्र प्रतिनियतेन घटो नेतरेण । यदीतरात्मकः स्यात्, एकघटमात्रप्रसङ्गः । ततः सामान्याश्रयो व्यवहारोऽपि न स्यात् । अथवा तस्मिन्नेव
घटविशेषे कालान्तरावस्थायिनि पूर्वोत्तरकुसूलान्तकपाला15 द्यवस्थाकलापः परात्मा, तदन्तरालवर्ती पर्यायः स्वात्मा ।
स तेनैव घटस्तत्कृतकर्मगुणव्यपदेशदर्शनान्नेतरात्मना । यदि कुसूलान्तकपालाद्यात्मकेनापि घटः स्यात, घटावस्थायामपि तदुपलब्धिर्भवेत् , उत्पत्तिविनाशार्थपुरुषप्रयत्नफ
लाभावश्चानुषज्येत । अथान्तरालकालवर्तिपर्यायात्मना20 प्यघटः स्यात् ; घटकृत्यं फलं नोपलभ्येत । अथवा प्रतिक्षणं द्रव्यस्य परिणामोपचयापचयभेदादर्थान्तरोपपत्तेश्च ऋजुसूत्रनयापेक्षया प्रत्युत्पन्नघटस्वभावः स्वात्मा। घटपर्याय एवातीतानागतः परात्मा । अनेन प्रत्युत्पन्नस्वभावेन सता घटो नेतरेणासता, तथोपलब्ध्यनुपलब्धिसद्भावात् । 25 इतरथा हि प्रत्युत्पन्नवदतीतानागतात्मनापि घटत्व एकसमयमात्रमेव सर्व स्यात् । अतीतानागतवत्प्रत्युत्पन्नाभावे घटाश्रयव्यवहाराभाव आपोत, विनष्टानुत्पन्नघटव्यवहा
1 A पट 2 B C वति 3 B C खभाव