________________
श्रीप्रमेयरत्नकोषः ।
योगनिरोधविशुद्धिकारणकलापोपेतः । तस्मात्संभवदत्यन्त
विशुद्धिक इति ॥ तथाविधस्य कस्यचिद्भव्यजीवस्याष्टादशपापस्थानोपाजिंतं ज्ञानाद्यावृत्तिरूपं कर्म प्रतिनियतविशिष्टवियोजकभावसामग्र्यामत्यन्तं वियुज्यते, आवृत्तिरूपत्वात् । 5 यद्यदावृत्तिरूपं तत्तदत्यन्तं वियुज्यते, यथा प्रतिनियतविशिष्टवियोजक भावसामग्री सद्भावे काञ्चनोपलकाञ्चनस्य मलपटलम् । तथा चेदमष्टादशपापस्थानोपार्जितं ज्ञानाद्यावरणरूपं कर्म । तस्मादत्यन्तं वियुज्यते । न चेदमसिद्धत्वादिदूषणदुष्टं, निरवद्यत्वात् । अतः सकलकर्म वियुक्तो 10 जीवो ज्ञानस्वरूपः सकलार्थग्रहणप्रवणः सर्वज्ञः ॥
"
किं च । सर्वे भावाः कस्यचित्प्रत्यक्षाः, प्रमेयत्वात् । यद्यत्प्रमेयं, तत्तत्कस्यचित्प्रत्यक्षं यथा घटादि । प्रमेयं च लोकालोकस्वभावं वस्तु । तस्मात्कस्यचित्प्रत्यक्षम् । यस्य च प्रत्यक्षं स सर्वज्ञ इति । तथां संभवति कश्चित्सर्वार्थ- 15 साक्षात्कारी पुरुषः, अनुपदेशालिङ्गा विसंवादिविशिष्टदिग्देशकालप्रमाणाद्यात्मकचन्द्रादिग्रहणाद्युपदेशदायित्वात् । यो यो यद्विषयेऽनुपदेशालिङ्गाविसंवाद्युपदेशदायी, सस तत्साक्षात्कारी दृष्टः, यथास्मदादिः । स्वयमनुभूतेऽर्थेऽनुपदेशालिङ्गा विसंवादिविशिष्ट दिग्देशकालप्रमाणाद्यात्मकच - 20 न्द्रादिग्रहणाद्युपदेशदायी च कश्चित् । तस्मात्तत्साक्षात्कारीचे । न चायमसिद्धो हेतुः, अनुपदेशालिङ्गाविसंवाद्युपदेशस्यास्मदादिष्वप्य विगानेन विद्यमानत्वात् । नाप्यनैकान्तिकः, तथाविधोपदेशदायित्वस्यासर्वार्थसाक्षात्कारिणः सर्वथानिवृत्तेः । नापि विरुद्धता, विपक्षतो ऽत्यन्तं व्यावृ- 25 तत्वादिति । न च तथाविधोपदेशस्य वृद्धपरंपरायातत्वादसिद्धं तत्साक्षात्कारित्वं तेषां रागादिमत्त्वेन तथाविधो
"
1 A यथा 2 BC इति
"