________________
श्रीप्रमेयरनकोषः। लिङ्गितपुरुषसत्त्वं प्रति विप्रतिपद्यन्ते । तत्संमोहापोहाय प्रमाणमारभ्यते । तद्यथा । ज्ञानस्य तारतम्यं क्वचिद्विश्रान्तं, तरतमशब्दवाच्यत्वात् । यद्यत्तरतमशब्दवाच्यं तत्तत्त्वचिद्विश्रान्तं, यथा परिमाणम् । तरतमशब्दवाच्यं च ज्ञानम्। 5 तस्मात्वचिद्विश्रान्तमिति। न चायमसिद्धो हेतुः, एकेन्द्रियादीनां सकलश्रुतज्ञानरत्नरत्नाकरपारगतानां जीवानां ज्ञानस्य तारतम्येनोपलब्धेः । नापि विरुद्धत्वमाशङ्कनीयं, ज्ञानविकलसकलकुम्भादिभ्योऽत्यन्तं व्यावर्तमानत्वात् । नाप्यनैकान्तिकतोद्भावनीया, विपक्षतः सर्वथा व्यावृत्त10 त्वादेव । नापि कालात्ययापदिष्टत्वं साधनस्यास्य संभाव
नीयं, प्रत्यक्षादिप्रमाणाबाधितधर्मनिर्देशानन्तरं प्रयुक्तत्वात् । नापि प्रकरणसमोऽयं हेतुः, विपर्ययसाधकस्य प्रत्यनुमानस्याप्रवृत्तेः । ततो भवति सकलदोषरहितादतो
हेतोर्ज्ञानप्रकर्षसिद्धिः। न च सर्वथोच्छेदः संभावयितव्यः, 15 उपयोगस्वभावत्वाजीवस्य, “उपयोगलक्षणो जीवः" इतिवचनात् । न चैतद्वाच्यं "उपयोगस्वभावत्वे सर्वदैव प्रकृष्टज्ञानवान् जीवः प्राप्नोति, ज्ञानाद्यावारककर्मपटलतिरस्कृतत्वात्"। न हि तिरस्करणेन जलदमण्डलादिना तिरस्कृतस्य मार्तण्डमण्डलस्येवैकरूपेण परिस्फूर्तिर्भवति । 20न च “ कर्ममलीमसत्वाद्विशुद्धेरभावान्न ज्ञानप्रकर्षो
भवति" इति वाच्यं, अनुमानतो विशुद्धिसद्भावसिद्धेः । तथाहि । तथाविधो विवक्षितः कश्चिजीवः संभवदत्यन्तविशुद्धिकः, अविशुद्धिप्रतिपक्षाविकलकारणकलापोपेतत्वा
त् । यो योऽविशुद्धिप्रतिपक्षाविकलकारणकलापोपेतः, 25 स स संभवदत्यन्तविशुद्धिकः, यथा क्षारमृत्पुटपाकादिवि
शुद्धिकारणोपेतो जात्यो रत्नविशेषः। तथा च तथाविधो विवक्षितः कश्चिजीवः प्रकर्षप्राप्ततपश्चारित्रानास्रवध्यान