________________
...
श्रीप्रमेयरत्नकोषः।
पदेशदानाभावात् । न च "अनेन युक्तिकलापेन शिशिरकरशेखरसुगतकपिलानामपि सर्वज्ञतापत्तेः कथं वृषभवर्धमानादेः प्रतिनियतस्यैव सर्वज्ञत्वं भवति" इति वाच्यं, तदुक्ततत्त्वानां प्रमाणोपपत्तिभिर्बाध्यमानत्वात् । तथाहि । 5 सदाशिवोऽभ्युपगम्यते नैयायिकैः, वैशेषिकैश्च महेश्वरः । तस्य च तत्त्वप्रणीतिरेव न घटते, विमुखत्वात्, वैमुख्यं च शरीररहितत्वात्, शरीररहितत्वं च धर्माधर्मविकलत्वात् , धर्माधर्मरहितत्वं च संसारिजीवविलक्षणत्वात् ।
तदुक्तम् । 10 विमुखस्योपदेष्ट्रत्वं श्रद्धागम्यं परं यदि ।
वैमुख्यं वितनुत्वेन तच्च धर्माद्यभावतः॥१॥ किं च । महेश्वरेण षट् तत्त्वानि निरूपितानि द्रव्यादीनि । तत्र च नव द्रव्याणि पृथिव्यादीनि मनोन्तानि प्रतिपादितानि । तत्संख्या च व्यभिचरतीति तमश्छायादेरपि 15 द्रव्यत्वेन घटमानत्वात् । तदुक्तम् ।
तमः खलु चलन्नीलं परापरविभागवत् । इतरद्रव्यवैधयान्नवभ्यो भेत्तुमर्हति ॥१॥ आतपः कटुको रूक्षश्छाया मधुरशीतला ।
कषायमधुरा ज्योत्स्ना सर्वरोगहरं तमः ॥२॥ 20 इत्यादिवचनात् । दिक् च पुरुषविवक्षिताकाशप्रदेशव्यतिरेकेण न काचिदुपलभ्यते घटते वा विचार्यमाणा । अतस्तस्या अपि न सत्त्वम् । मनोऽप्यणुपरिमाणं नित्यं द्रव्यं न किंचन घटते । अतो व्यभिचार्याभिधायकत्वात्कथं
तस्य सर्वज्ञत्वम् । तन्मार्गानुसारिकणादादिमुनिप्रणीतशा25 स्त्राणामपि न तत्त्वाभिधायकत्वम् । तदभावाच्च न शास्त्रत्वमिति । तथा सुगतस्यापीहपरलोकव्यवहारबाधितैकान्तक्षणिकत्वनैरात्म्यादिवादतत्त्वप्रतिपादकस्य कथं सर्व__ 1 A omits