________________
ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तैर्हि । तस्मात्तज्जीवत्वं हि नित्यं सर्वस्य जीवस्य ॥
इति सङ्गतं देहवियोगान्मोक्षः, आदिशब्दाद्देहेन्द्रियधर्मविरहोऽपीति पद्यार्थः ॥५२॥
(अव०) य: पुनर्बद्धस्य स्पृष्ट-बद्ध-निधत्तनिकाचितादिरूपस्य कर्मणस्तपश्चरण-ध्यानादिभिः शाटः क्षपणं सा निर्जरा सकामाकामभेदेन द्विधा । तुः पुनः । देहेन्द्रियधर्मादिविरहे आत्यन्तिको वियोगो मोक्षो नवविधः । ननु सर्वथा प्राणाभावादजीवत्वप्रसङ्गः, तथा मोक्षाभावः, न, द्रव्यप्राणानामेवाभावः, भावप्राणास्तु क्षायिकसम्यक्त्ववीर्यज्ञानादयो निष्कर्मावस्थायामपि सन्त्येव ॥५२॥
एवं नामोद्देशेन तत्त्वानि सङ्कीर्त्य फलपूर्वकमुपसंहारमाहएतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः । सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३॥
(सो०) एतानि पूर्वोक्तानि, तत्र जिनमते, तत्त्वानि यः कश्चित् स्थिराशयो दृढचित्तः सन् श्रद्धत्ते, अवैपरीत्येन मनुते । एतावता जानन्नपि अश्रद्दधानो मिथ्याहगेव । यथोक्तं-श्रीगन्धिहस्तिमहात:
द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्या इति ।
तस्य दृढमानसस्य सम्यक्त्वज्ञानयोगेन चारित्रयोग्यता चारित्रार्हता । सम्यक्त्वज्ञानयोगेनेति सम्यक्त्वं च ज्ञानं च सम्यक्त्वज्ञाने तयोर्योगस्तेन । ज्ञानदर्शनविनाकृतस्य हि चारित्रस्य सम्यक्चारित्रव्यवच्छेदार्थं सम्यक्त्वज्ञानग्रहणमिति ।
(अव०) स्थिराशयो दृढचित्तः सन् श्रद्धत्ते अवैपरीत्येन मनुते, जानन्नपि अश्रद्दधानो मिथ्याहगेव । सम्यक्त्वं च ज्ञानं च तयोर्योगः, ज्ञानदर्शनविनाकृतस्य हि चारित्रस्य निष्फलत्वात्, सम्यक्चारित्रव्यवच्छेदार्थं सम्यग्ज्ञानग्रहणम् ॥५३।।