________________
चतुर्विधः प्रकृतिस्थित्यनुभागप्रदेशभेदात् ।
स्वभावः प्रकृतिः प्रोक्तः स्थितिः कालावधारणम् । अनुभागो रसो ज्ञेयः प्रदेशो दलसञ्चयः ॥ इति इत्यादिः स बन्धो ज्ञेयः ॥५१॥
(अव०) आत्रवद्वारप्रतिरोधः संवरः । ५७ भेदाः । तुः पुनरर्थः यो जीवस्य कर्मणा बद्धस्य परस्परं क्षीरनीरन्यायेन लोलीभावात् सम्बन्धो योगः स बन्धो नाम, प्रकृतिस्थित्यनुभागप्रदेशभेदाच्चतुर्धा । प्रकृतिः परिणामः स्यात् ॥५१॥
निर्जरामोक्षौ चाह
बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता । आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥
(सो०) यः पुनर्बद्धस्य स्पृष्टबद्धनिधत्तनिकाचितादिरूपेणार्जितस्य कर्मणस्तपश्चरणध्यानजपादिभिः शाटः कर्मक्षपणं सा निर्जरा मता पूर्वसूरिभिरिति । सा पुनर्द्विविधा, सकामाकामभेदेन । तु पुनर्देहादेरात्यन्तिको वियोगो मोक्ष उच्यते । स च नवविधो यथा
संतपयपरूवणया दव्वपमाणं च खित्तफुसणा य । कालो य अंतरं भागो भावो अप्पाबहुं चेव ॥
(नवतत्त्व प्रक.-४३) इति ____नवप्रकारो हि करणीयः । बाह्यप्राणानामात्यन्तिकापुनर्भावित्वेनाभावः शिव इत्यर्थः । ननु सर्वथा प्राणाभावादजीवत्वप्रसङ्गः, तथा च द्वितीयतत्त्वान्तर्भूतत्वात् मोक्षतत्त्वाभाव इति चेत्; न; मोक्षे हि द्रव्यप्राणानामेवाभावः । भावप्राणास्तु नैष्कर्मिकावस्थायामपि सन्त्येव । यदुक्तम्
यस्मात्क्षायिकसम्यक्त्ववीर्यसिद्धत्वदर्शनज्ञानैः । आत्यन्तिकैः स युक्तो निर्द्वन्द्वेनापि च सुखेन ॥
• ५५ .