SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मित्यर्थः । मिथ्यात्वाद्याश्चेति । मिथ्यादर्शनाविरतिप्रमादकषाययोगा हेतवः । पापस्य कारणानि तत्प्रकृतयश्च व्यशीतिस्तद्यथा थावरदसचउजाई अपढमसंठाणखगइसंघयणा । तिरिनिरयदुगुवघाई वन्नचऊनामचउतीसा ॥ नरयाउ नीय अस्सायघाइपणयालसहियबासीई इति । पुण्यप्रकृतिव्यतिरिक्ताः पापप्रकृतयो द्वयशीतिः । वर्णचतुष्कस्य तु शुभाशुभरूपेणोभयत्रापि सम्बध्यमानत्वान्न दोषः । यस्तैर्बन्ध इति । यस्तैमिथ्यादर्शनादिभिर्बन्धः स कर्मबन्धः । स जिनशासन आस्त्रवो विज्ञेयः, आस्रवतत्त्वं ज्ञेयमित्यर्थः । तत्प्रकृतयश्च द्वाचत्वारिंशत् । तथा हि-पञ्चेन्द्रियाणि, चत्वारः कषायाः, पञ्च अव्रतानि, मनोवचनकायाः, पञ्चविंशति-क्रियाश्च कायिक्यादय इत्यास्त्रवः ॥५०॥ (अव०) तु पुनः पुण्यप्रकृतिविसदृशं पापम् । ८२ भेदाः । मिथ्यादर्शनाविरतिप्रमादकषाययोगा हेतवः । यस्तैमिथ्यात्वादिभिर्बन्धस्य हेतुः कर्मबन्धः स आस्रवः । ४२ भेदाः । पञ्चेन्द्रियाणि, चत्वारः कषायाः, पञ्च व्रतानि, मनोवचनकायाः, पञ्चविंशतिक्रियाः कायिक्यादय इति ॥५०॥ संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । अन्योन्यानुगमात्कर्मसम्बन्धो यो द्वयोरपि ॥५१॥ (सो०) तु पुनस्तन्निरोध आस्रवद्वारप्रतिरोधः संवरः तत्त्वम् । संवरप्रकृतयस्तु सप्तपञ्चाशत्तद्यथा समिइगुत्तिपरीसहजइधम्मभावणाचरित्ताणि । पणतिगदुवीसदसबारपंचभेएहि सगवण्णा ॥ (नवतत्त्व-२५) पञ्च समितयस्तिस्रो गुप्तयो, द्वाविंशतिः परीषहा, दशविधो यतिधर्मः, द्वादश भावनाः, पञ्च चारित्राणीति प्रकृतयः । बन्धो नाम जीवस्य प्राणिनः कर्मणो बध्यमानस्यान्योन्यानुगमात् परस्परं क्षीरनीरन्यायेन लोलीभावाद् यो द्वयोरपि जीवकर्मणोः सम्बन्धः संयोगः स बन्धो नाम तत्त्वमित्यर्थः । स च . ५४.
SR No.022471
Book TitleShaddarshan Samucchay
Original Sutra AuthorN/A
AuthorVairagyarativijay
PublisherPravachan Prakashan
Publication Year2002
Total Pages146
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy