________________
भावोऽचेतनः सोऽजीवः समाख्यातः कथितः पूर्वसूरिभिरिति । भेदाश्च धर्माधर्माकाशपुद्गलाः स्कन्धदेशप्रदेशगुणा अद्धाकेवलपरमाणुश्चेति चतुर्दश अजीवभेदाः । पुण्यं सत्कर्मपुद्गला इति । पुण्यं नाम तत्त्वं कीदृगित्याहसत्कर्मपुद्गला इति । सच्छोभनं सातवेद्यं कर्म, तस्य पुद्गला दलपाटकानि पुण्यप्रकृतय इत्यर्थः । ताश्च द्वाचत्वारिंशत्तद्यथा
नरतिरिसुराउउच्चं सायं परघायआयवुज्जोयं । तित्थुस्सासनिमाणं पणिदिवइरुसभचउरंसं ॥ तसदसचउवन्नाई सुरमणुदुगपंचतणुउवंगतियं ।
अगुरुलहुपढमखगई बायालीसं ति सुहपयडी ॥ भावार्थस्तु ग्रन्थविस्तरभयान्नोच्यत इति श्लोकार्थः ।
(अव०) जीवादिस्वरूपमाह । जैनमते चैतन्यलक्षणो जीव इति सम्बन्धः । ज्ञानदर्शनचारित्रधर्माणां गुणाभिन्नो भिन्नश्च(?) । स्वापेक्षया ज्ञानवत्त्वमभिन्नं ज्ञानादिभ्यः, परापेक्षया ज्ञानवत्त्वं भिन्नम्, लेशतोऽपि यदि सर्वजीवेषु न ज्ञानं तदा जीवोऽजीवत्वं प्राप्नुयात् । विवृत्तिः परिणामः सुरनरनारकतिर्यक्षु एकेन्द्रियादिजातिषु विविधोत्पत्तिरूपान् परिणामाननुभवति जीवः । शुभं सातवेद्यम् अशुभमसातवेद्यम्, एवंविधं कर्म करोतीति कर्तृभूतः । स्वोपार्जितपुण्यपापफलभोक्ता, न चान्यकृतस्यान्यो भोक्ता ॥४८॥
चेतनास्वभावत्वं लक्षणं यस्य सूक्ष्मबादरएकेन्द्रियास्तथा विकलेन्द्रियाः सङ्ग्यसचिनः पञ्चेन्द्रियाः पर्याप्तापर्याप्तभेदेन चतुर्दशजीवभेदाः । अस्माद्यो विपरीतोऽचेतनादिलक्षणः स अजीवः धर्माधर्माकाशपुद्गलाः स्कन्धदेशप्रदेशगुणाः, अद्धा केवलपरमाणवश्चेति चतुर्दश अजीवभेदाः । सत् शोभनं सातवेद्यं कर्म तस्य पुद्गलाः दलपाटकानि ते च ॥४९॥
शेषतत्त्वमाह
पापं तद्विपरीतं तु मिथ्यात्वाद्यास्तु हेतवः । यस्तैर्बन्धः स विज्ञेय आस्रवो जिनशासने ॥५०॥ (सो०) तु पुनस्तद्विपरीतं पुण्यप्रकृतिविसदृशं पापं पापतत्त्व