________________
फलमाह
तथा भव्यत्वपाकेन यस्यैतत् त्रितयं भवेत् । सम्यग्ज्ञानक्रियायोगाज्जायते मोक्षभाजनम् ॥५४॥
(सो०) तथेत्युपदर्शने । भव्यत्वपाकेन परिपक्वभव्यत्वेन तद्भव एवावश्यं मोक्षे गन्तव्यमिति भव्यत्वस्य परिपाकेन यस्य पुंसः स्त्रियो वा एतत् त्रितयं दर्शनज्ञानचारित्ररूपं भवेत् । यत्तदोनित्याभिसम्बन्धात् सोऽनुक्तोऽपि सम्बध्यत इति । स पुमान्मोक्षभाजनं जायते निर्वाणश्रियं भुङ्क्त इत्यर्थः । कस्मात् ? सम्यग्ज्ञानक्रियायोगात् । सम्यगिति सम्यक्त्वं दर्शनं, ज्ञानमागमावबोधः, क्रिया च चरणकरणात्मिकास्तासां योगः सम्बन्धस्तस्मात् । न च केवलं दर्शनं ज्ञानं चारित्रं वा मोक्षहेतुकम् । यदाहुर्भद्रबाहुस्वामिपादाः--
सुबहुं पि सुयमहीयं किं काही चरणविप्पमुक्कस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ॥
तथा
नाणं चरित्तहीणं लिंगग्गहणं च दंसणविहीणं । संजमहीणं च तवं जो चरइ निरत्थयं तस्स ॥
दर्शनज्ञानचारित्राणि हि समुदितान्येव मोक्षकारणानि । यदुवाच वाचकमुख्य:- "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [त. सू० १११] ॥५४॥ इति
(अव०) तथेत्युपदर्शने । परिपक्वभव्यत्वेन तद्भवावश्यंमोक्षगन्तव्येन पुंसः स्त्रियो वा ज्ञानदर्शनचारित्रत्रयं पुमान् मोक्षभाजनं मुक्तिश्रियं भुङ्क्ते । सम्यगिति ज्ञानामागमावबोधः, क्रिया चरणकरणात्मिका, तासां योगः सम्बन्धः, न केवलं ज्ञानं दर्शनं चारित्रं वा मोक्षहेतुः किन्तु समुदितं त्रयम् ॥५४॥
प्रमाणे आहप्रत्यक्षं च परोक्षं च द्वे प्रमाणे तथा मते । अनन्तधर्मकं वस्तु प्रमाणविषयस्त्विह ॥५५॥
• ५७ .