________________
अपरेषामपि दर्शनानां देवतातत्त्वप्रमाणादिभिन्नतया बहुभेदाः प्रादुर्भवन्ति, तथापि परमार्थतस्तेषामेष्वेवान्तर्भावात् षडेवेति सावधारणं पदम् । ननु सङ्घटमानान्इयतो भेदानुपेक्ष्य किमर्थं षडेवेत्याह-मूलभेदव्यपेक्षया । मूलभेदास्तावत् षडेव षट्सङ्ख्यास्तेषां व्यपेक्षया तानाश्रित्येत्यर्थः । तानि च दर्शनानि मनीषिभिः पण्डितैतिव्यानि बोद्धव्यानि । केन प्रकारेणेति-देवतातत्त्वभेदेन । देवता = दर्शनाधिष्ठायिकाः, तत्त्वानि च मोक्षसाधनानि रहस्यानि, तेषां भेदस्तेन पृथक्पृथक् दर्शनदेवता दर्शनतत्त्वानि च ज्ञेयानीत्यर्थः ॥२॥
(अव०) प्रसिद्धानि दर्शनानि षडेव । एवोऽवधारणे । यद्यपि भेदप्रभेदतया बहूनि दर्शनानि प्रसिद्धानि । यदुक्तम्
असियसयं किरियाणं अक्किरियवाईणमाह चुलसीई ।
अन्नाणी सत्तट्ठी वेणइआणं च बत्तीसं ॥
इत्यादि । मूलभेदापेक्षया मूलभेदानाश्रित्य, वैभाषिकसौत्रान्तिकबहूदककुटीचरहंसपरमहंसभट्टप्रभाकरादिसम्भवचैतदन्तर्गत एव । देवता = दर्शनाधिष्ठायकः । तत्त्वानि = रहस्यानि मोक्षसाधकानि ॥२॥
तेषामेव दर्शनानां नामान्याह
बौद्धं नैयायिकं साङ्ख्यं जैनं वैशेषिकं तथा ।
जैमिनीयं च नामानि दर्शनानाममून्यहो ॥३॥
(सो०) अहो इति इष्टामन्त्रणे । दर्शनानां मतानाममूनि नामानीति सङ्ग्रहः । ज्ञेयानीति क्रिया अस्तिभवत्यादिवदनुक्ताप्यवगन्तव्या । तत्र बौद्धमिति बुद्धो देवतास्येति बौद्धं सौगतदर्शनम् । नैयायिकं पाशुपतदर्शनम् । तत्र न्यायः प्रमाणमार्गस्तस्मादनपेतं नैयायिकमिति व्युत्पत्तिः । साङ्ख्यमिति कापिलदर्शनम् । आदिपुरुषनिमित्तेयं सज्ञा । जैनमिति जिनो देवतास्येति जैनमार्हतं दर्शनम् । वैशेषिकम् इति काणाददर्शनम् । दर्शनदेवतादिसाम्येऽपि नैयायिकेभ्यो द्रव्यगुणादिसामग्या विशिष्टमिति वैशेषिकम् । जैमिनीयं जैमिनिऋषिमतं भाट्टदर्शनम् । चः समुच्चयस्य दर्शकः । एवं तावत् षड्दर्शननामानि ज्ञेयानि
. .४.