________________
(अव०) सत् शोभनं दर्शनं सामान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं लोचनं वा यस्य, जिनो रागादिजेतृत्वात्, वीरमिति साभिप्रायं प्रमाणवक्तव्यस्य परपक्षच्छेदादि(परपक्षोच्छेदादेः) सुभटवृत्तित्वात् भगवतश्च दुःखसम्पादिविषमोपसर्गसहिष्णुत्वेनसुभटत्वात् । यदुक्तम्विदारणात् कर्मततेविराजनात्तपःश्रिया विक्रमतस्तथाद्भुतात् । भवत्प्रमोदः किल नाकिनायकश्चकार ते वीर इति स्फुटाभिधाम् ॥
स्याद्विकल्पितो वादः स्याद्वादः, सदसन्नित्यानित्यादिः तं दिशति यस्तम् । सर्वाणि च तानि दर्शनानि च बौद्धादीनि तद्वाच्यः अर्थाऽभिधेयः अर्थोऽभिधेयैर वस्तुप्रयोजननिवृत्तिष्वित्यनेकार्थः सङ्केपेणैव, विस्तरकरणं दुरवगाहम् ॥१॥
कानि तानि दर्शनानीति व्यक्तितस्तत्सङ्ख्यामाह
दर्शनानि षडेवात्र मूलभेदव्यपेक्षया । देवतातत्त्वभेदेन ज्ञातव्यानि मनीषिभिः ॥२॥
(सो०) अत्र जगति प्रसिद्धानि . षडेव दर्शनानि । एवशब्दोऽवधारणे । यद्यपि भेदप्रभेदतया बहूनि दर्शनानि प्रसिद्धानि । यदुक्तं सूत्रे(= सूत्रकृताङ्गसूत्रे)
असियसयं किरियाणं अकिरियवाईण हुंति चुलसीई । अन्नाणि य सत्तट्टी वेणइआणं च बत्तीसं ॥ (सू. नि. ११९)
इति त्रिषष्ट्यधिका त्रिशती पाषण्डिकानाम् । बौद्धानां चाष्टादश निकायभेदाः, वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकादयो भेदाः । जैमिनेश्च शिष्यकृता बहवो भेदाः ।
उत्पलः कारिकां वेत्ति तन्त्रं वेत्ति प्रभाकरः । वामनस्तूभयं वेत्ति न किञ्चिदपि रेवणः ॥ अपरेऽपि बहूदककुटीचरहंसपरमहंसभाट्टप्राभाकरादयो बहवोऽन्तर्भेदाः ।
१. तन्त्रं = टीकां ।