________________
इत्यनुक्तस्यापि गतार्थत्वात् । किंविशिष्टोऽर्थः ? सर्वदर्शनवाच्य इति । सर्वाणि च तानि दर्शनानि बौद्धनैयायिकजैनवैशेषिकसाङ्ख्यजैमिनीयादीनि समस्तमतानि वक्ष्यमाणानि तेषु वाच्यः कथनीयः । किं कृत्वा ? जिनं नत्वा । सामान्यमुक्त्वा विशेषमाह । कं जिनम् ? वीरं वर्द्धमानस्वामिनम् । वीरमिति साभिप्रायम् । प्रमाणवक्तव्यस्य परपक्षोच्छेदादिसुभटवृत्तित्वात्, भगवतश्च दुःखसम्पादिविषमोपसर्गसहिष्णुत्वेन सुभटरूपत्वात् । तथा चोक्तम्— विदारणात्कर्मततेर्विराजनात्तपःश्रिया विक्रमतस्तथाद्भुतात् । भवत्प्रमोदः किल नाकिनायकश्चकार ते वीर इति स्फुटाभिधाम् ॥
,
इति युक्तियुक्तं ग्रन्थारम्भे वीरजिननमस्करणं प्रकरणकृतः । यद्वा आसन्नोपकारित्वेन युक्ततरमेव श्रीवर्द्धमानतीर्थकृतो नमस्करणम् । तमेव विशिनष्टि । किम्भूतम् ? सद्दर्शनं सत् = शोभनं दर्शनं शासनं, सामान्यावबोधलक्षणं ज्ञानं सम्यक्त्वं वा यस्य स तमिति । ननु दर्शनचारित्रयोरुभयोरपि मुक्त्यङ्गत्वात् किमर्थं सद्दर्शनमित्येकमेव विशेषणमाविष्कृतम्, न, दर्शनस्यैव प्राधान्यात् । यत्सूत्रम्-.
=
भद्वेण चरित्ताउ दंसणमिह दढयरं गहेयव्वं । सिज्झति चरणरहिया दंसणरहिया न सिज्झति ॥
इति तद्विशेषणमेव युक्तम् । पुनः किम्भूतम् ? स्याद्वाददेशकम् । स्याद् विकल्पितो वादः स्याद्वादः, सदसन्नित्यानित्याभिलाप्यानभिलाप्यसामान्यविशेषात्मकस्तं दिशति भविकेभ्य उपदिशति यस्तम् । अत्रादिमार्द्धेभगवतोऽतिशयचतुष्टयमाक्षिप्तम् । सद्दर्शनमिति दर्शनज्ञानयोः सहचारित्वाज्ज्ञाना-तिशयः । जिनं वीरमिति रागादिजेतृत्वात् अष्टकर्माद्यपायनिराकर्तृत्वाच्च अपायापगमातिशयः । स्याद्वाददेशकमिति वचनातिशयः । ईदृग्विधस्य निरन्तर - भक्ति-भरनिर्भर - सुरासुर - निकाय - निषेव्यत्वमानुषङ्गिकमिति पूजातिशय:, इति प्रथमश्लोकार्थः ॥१॥
अवचूरिः
श्रीमद्वीरजिनं नत्वा हरिभद्रगुरुं तथा । किञ्चिदर्थाप्यते युक्त्या षड्दर्शनसमुच्चयम् ॥
.२०