________________
शिष्येणेत्यवसेयम् ॥३॥
(अव०) बुद्धो देवतास्येति बौद्धम् । न्यायादनपेतं नैयायिकम् । साङ्ख्यं कापिलदर्शनम् । जैनो देवतास्येति जैनम् । वैशेषिकं कणाददर्शनम् । जैमिनिऋषिमतं जैमिनीयं भाट्टं दर्शनम् । चः समुच्चये ॥३॥
अथ द्वारश्लोके प्रथममुपन्यस्तत्वाद् बौद्धदर्शनमेवादावाचष्टे
तत्र बौद्धमते तावद्देवता सुगतः किल । चतुर्णामार्यसत्यानां दुःखादीनां प्ररूपकः ॥४॥
( सो० ) तत्र तस्मिन् बौद्धमते सौगतशासने । तावदिति प्रक्रमे सुगतो देवता बुद्धो देवता बुद्धभट्टारको दर्शनादिकरः किलेत्याप्तप्रवादे । तमेव विशिनष्टि कथम्भूतः ? तत्त्वनिरूपकत्वेन प्ररूपको दर्शकः कथयितेति यावत् । केषामित्याह-आर्यसत्यानाम् । आर्यसत्यनामधेयानां तत्त्वानाम् । कतिसङ्ख्यानामिति चतुर्णां चतूरूपाणाम् । किंरूपाणामित्याह । दुःखादीनां दुःखसमुदयमार्गनिरोधलक्षणानाम् । आदिशब्दोऽवयवार्थोऽत्र । यदुक्तम्—
सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्ष्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥
एवंविधः सुगतो बौद्धमते देवता ज्ञेय इत्यर्थः ॥४॥
(अव०) चतुर्णां दु:खदुःखसमुदयमार्गनिरोधलक्षणानाम् आर्यसत्यानां तत्त्वानां प्ररूपकः कथयिता सुगतो नाम । आदिशब्दोऽत्र अवयवार्थः, यदुक्तम्— सामीप्येऽथं व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्व्वेषु मेधावी आदिशब्दं तु लक्षयेत् ॥४॥
आदिममेव तत्त्वं विवृण्वन्नाह
दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना सञ्ज्ञा संस्कारो रूपमेव च ॥५॥