________________
सनातनजैनग्रंथमालायांनासिद्ध इति न प्रतिज्ञाथैकदेशो नामासिद्धो हेतुरस्ति विपक्षे वाधकप्रभाणाभावात् । अन्यथानुपपन्नत्वनियमानिश्चयादगमकोऽयं हेतुरितिचन्न ज्ञानमात्रादौ विपक्षे मोक्षमार्गत्वस्य हेतोः प्रमाणवाधितत्वात् । सम्यग्दर्शनादित्रयात्मकत्वे हि मोक्षमार्गस्य साध्ये ज्ञानमात्रादिर्विपक्षस्तत्र च न मोक्षमार्गत्वं सिद्धं वाधकसद्भावात्तथाहि ज्ञानमात्रं न कर्म महाव्याधिमोक्षमार्गः श्रद्धानाचरणशून्यत्वात् शारीरमानसव्याधिविमोक्षकारणरसायनज्ञानमात्रवत् नाप्याचरणमात्रं सत्कारणं श्रद्धानज्ञानशून्यत्वात् रसायनाचरणमात्रवत् नापि ज्ञानवैराग्ये तदुपायस्तत्वश्रद्धानविधुरत्वाद्रसायनज्ञानवैराग्यमात्रवदिति सिद्धोऽन्यथानुपपत्तिनियमः साधनस्य ततो मोक्षमार्गस्य सम्यग्दर्शनादित्रयात्मकत्वसिद्धिः । परंपरया मोक्षमार्गस्य सम्यग्दर्शनमात्रात्मकत्वसिद्धर्व्यभिचारी हेतुरितिचेन्न साक्षादितिविशेषणासाक्षान्मोक्षमार्गत्वं सम्यग्दर्शनादित्रयात्मकत्वं न व्यभिचरति क्षीणकषायचरमक्षणवर्तिपरमाहत्यलक्षणजीवन्मोक्षमार्ग इवेति सुप्रतीतं तथैवायोगकेवलिचरमक्षणवर्तिकृत्स्नकर्मक्षयलक्षणमाक्षमार्गः साक्षान्मोक्षमार्गत्वं सम्यग्दर्शनादित्रयात्मकत्वं न व्यभिचरति तपोविशेषस्य परमशुक्लध्यानलक्षणस्य सम्यक्चारित्रेऽतर्भावादितिविस्तरतस्तत्वार्थालंकारयुक्त्यागमविरोधन परीक्षितमववोद्धव्यं तदेवं विधस्य मोक्षमार्गस्य प्रणेता विश्वतत्त्वज्ञः साक्षात्परंपरया वति शंकायामिदमाह ।
प्रणेता मोक्षमार्गस्याबाध्यमानस्य सर्वथा ।
साक्षाद्यएव स ज्ञेयो विश्वतत्त्वज्ञताश्रयः ॥११९॥ न हि परंपरया मोक्षमार्गस्य प्रणेता गुरुपर्वक्रमाविच्छेदादधिगततत्त्वार्थशास्त्रार्थोऽप्यस्मदादिभिः साक्षाद्विश्वत्त्वज्ञतायाः समाश्रयः साध्यते प्रतीतिविरोधात्किं तर्हि साक्षान्मोक्षमार्गस्य सकलवाधकप्रमाणरहितस्य यःप्रणेता स एव विश्वतत्त्वज्ञताश्रयस्तत्वार्थसूत्रकारैरुमास्वामिप्रभृतिभिः प्रतिपाद्यते भगवद्भिः साक्षात्सर्वतत्वज्ञतामन्तरेण साक्षादबाधितमोक्षमार्गस्य प्रणयनानुपपत्तेरिति वंदे तद्गुणलब्धय इत्येत व्याख्यातुमनाः प्राह
वीतनिःशेषदोषोऽतः प्रवंद्योऽर्हन गुणांबुधिः ।
तद्गुणप्राप्तये सद्भिरिति संक्षेपतोऽन्वयः ॥१२०॥ यतश्च यः साक्षान्मोक्षमार्गस्यावाधितस्य प्रणेता स एव विश्वतत्त्वानां ज्ञाता कर्मभूभृतां भेत्ताऽ तएवाहन प्रवंधो मुनींद्रस्तस्य वीतनिःशेषाज्ञानादिदोषत्वात्तस्यानंतज्ञानादिगुणांबुधित्वाच्च योहि गुणांबुधिः स एव तद्गुणलब्धये सद्भिराचार्यैवेदनीयः स्यान्नान्य इति मोक्षमार्गस्य नेतारं भेत्तार कर्मभूभृतां ज्ञातारं विश्वसत्त्वानां भगवंतमहंतमेवान्ययोगव्यवच्छेदेन निर्णीतमहं बंदे तद्गुणलब्ध्यर्थमिति संक्षेपतः शास्त्रादौ परमेष्ठिगुणस्तोत्रस्य मुनिपुंगवैविधीयमानस्यान्वयः संप्रदायाव्यवच्छेदलक्षणः पदार्थघटनालक्षणो वा लक्षणीयः प्रपंचतस्तदन्वयस्याक्षेपसमाधानलक्षणस्य श्रीमत्स्वामिसमंतभद्रेर्दैवागमाख्याप्तमीमांसायां प्रकाशनात्तत्त्वार्थविद्यानमहोदयालंकारेषु च सदन्वयस्य व्यवस्थापनादलं प्रसंगपरंपरया अत्र समासतस्तद्विनिश्चयात्कस्मात्पुनरेवंविधोभगवान् सकलपरीक्षालक्षितमोहक्षयः साक्षीकृतविश्वतत्त्वार्थो वंद्यते सद्भिरित्यावेद्यते ।
मोहाक्रांतान भवतिगुरोर्मोक्षमार्ग प्रणीति । नर्तेतस्या सकलकलुषध्वंसजा स्वात्मलब्धिः॥ तस्यैवंद्यःपरगुहारहक्षीण मोहस्त्वमर्हन् । साक्षात्कुर्वन्नमलकमिवाशेषतत्त्वानि नाथ ॥१२॥