________________
आप्तपरीक्षा। स्थागामिकर्मानुत्पत्तिलक्षणत्वादास्रवनिरोधः संवर इति वचनात् निर्जरायास्तु संचितकर्मविप्रमोक्षलक्षणत्वाद्देशतः कर्मविप्रमोक्षानिजेरेति प्रतिपादनात्कृत्स्नकर्मविप्रमोक्षस्यैव मोक्षत्ववचनात्ततः संचि. तानागतद्रव्यभावकर्मणां विप्रमोक्षस्य संवरनिर्जरयोरभावात्ताभ्यां मोक्षस्य भेदः सिद्धः । ननु च नास्तिकान्प्रति मोक्षस्वरूपेऽपि विवाद इति चन्न तेषामत्रानधिकारात्तदेवाह ।
नास्तिकानां च नैवास्ति प्रमाणं तनिराकृतौ ।
प्रलापमात्रकं तेषां नावधेयं महात्मनां ॥ ११७॥ येषां प्रत्यक्षमेव प्रमाणं नास्तिकानां ते कथं मोक्षनिराकरणाय प्रमाणांतरं वदेयुः स्वेष्टहानिप्रसंगात् पराभ्युपगतेन प्रमाणेन मोक्षाभावमाचक्षाणां मोक्षसद्भावमेव किन्नाचक्षते न चेद्विक्षिप्तमनसः परपर्यनुयोगपरतया प्रलापमात्रं तु महात्मनां नावधेयं तेषामुपेक्षाहत्वात्ततोनिर्विवाद एव मोक्षः प्रतिपत्तव्यः । क स्तर्हि मोक्षमार्ग इत्याह ।
मार्गो मोक्षस्य वै सम्यग्दर्शनादित्रयात्मकः ।
विशेषण प्रपत्तव्यो नान्यथा तद्विरोधतः ॥ ११८॥ मोक्षस्य हि मार्गः साक्षात्प्रप्त्युपायोविशेषेणप्रत्यायनीयोऽसाधारणकारणस्य तथाभावोपपत्तेन पुनः सामान्यतः साधारणकारणस्य द्रव्यक्षेत्रकालभवभावविशेषस्य सद्भावात्म च त्रयात्मक एव प्रतिपत्तव्यः तथाहि सम्यग्दर्शनादित्रयात्मको मोक्षमार्गः साक्षान्मोक्षमार्गत्वाद्यस्तु न सम्यग्दर्शनादित्रयात्मकः स न साक्षान्मोक्षमार्गों यथा ज्ञानमात्रादि साक्षान्मोक्षमार्गश्च विवादाध्यासितस्तस्मात्सम्यग्दर्शनादित्रयात्मक इत्यत्र नाप्रसिद्धो धर्मी मोक्षमार्गमात्रस्य सकलमोक्षवादिनामविवादस्य धम्मित्वात्तत एव नाप्रसिद्धविशेष्यः पक्षो नाप्यप्रसिद्धविशषणः सम्यग्दर्शनादित्रयात्मकत्वस्य व्याधिविमोक्षमार्गरसायनादौ प्रसिद्धत्वात् । नहि रसायनश्रद्धानमात्रं सम्यग्ज्ञानाचरणरहितं सकलामयविनाशनायालं नापि रसायनज्ञानमात्रं श्रद्धानाचरणरहितं न च रसायनाचरणमात्रं श्रद्धान ज्ञानशून्य तेषामन्यतमापाये सकलव्याधिविप्रमोक्षलक्षणस्य रसायनफलस्यासंभवात्तद्वत्सकलकर्म महाव्याधिविप्रमोक्षोऽपि तत्वश्रद्धानज्ञानाचरणत्रयात्मकादेवोपायादनपायमुपपद्यते तदन्यतमापाये तदनुपपत्तेः । ननु चाय प्रतिज्ञार्थंकदेशासिद्धो हेतुः शब्दानित्यत्वे शब्दत्ववदिति न मंतव्यं प्रतिज्ञार्थंकदेशत्वेन हेतोरसिद्धत्वायोगात् प्रतिज्ञा हि धमिधर्मसमुदायलक्षणा तदेकदेशस्तु धर्मी धर्मो वा तत्र न धर्मी तावदप्रसिद्धः प्रसिद्धोधर्मीतिवचनात् न चायं धर्मित्वविवक्षायामप्रसिद्ध इति वक्तुं युक्तं प्रमाणतस्तसंप्रत्ययस्याविशेषात् ननु मोक्षमार्गोधर्मी मोक्षमार्गत्वं हेतुस्तञ्च न, धर्मिसामान्यरूपत्वात्साधनधर्मत्वेन प्रतिपादनादित्यपरः सोप्यनुकूलमाचरति साधनधर्मस्य धर्मिरुपत्वाभावे प्रतिज्ञार्थंकदेशत्वनिराकरणात् विशेष धर्मिणं कृत्वा सामान्य हेतुं ब्रुवतो न दोषं इति परैः स्वयमभिधानात्, प्रयत्नानंतरीयकः क्षणिकः शब्दः अयत्नानंतरीयकत्वादित्यादिवत कः पुनरत्र विशेषो धर्मी मोक्षमार्ग इति ब्रूमः कुतोऽस्यविशेषः स्वास्थ्यमार्गात् नह्यत्र मार्गसामान्यं धम्मि किं तर्हि मोक्षविशेषणो मार्गावशेषः कथमेवं मोक्षमार्गत्वं सामान्यं मोक्षमार्गाणामनेकव्यक्तिनिष्ठस्वात्कचिन्मानसशारीरव्याधिविशेषाणां मोक्षमार्गः कचिद्रव्यभावसकलकर्माणामिति मोक्षमार्गत्वं सामान्य शब्दत्ववत् शब्दत्वं हि यथा शब्दविशेषे वर्ण पदवाक्यात्मके विवादास्पदे तथा ततविततघनसुषिरशब्देऽपि श्रावणज्ञानजननसमर्थतया (शब्दव्यपदेशं नातिकामति ) इति शब्दविशेष धमिणं कृत्वा शब्दत्वं सामान्यं हेतुं ब्रुषाणो न कंचिद्दोषमास्तिघ्नुते तथानन्वयदोषस्याप्यभावात् तद्वन्मोक्षमार्गविशेषं धम्मिणमभिधाय मोक्षमार्गत्वं समान्यं साधनमभिदधानो नोपलब्धव्यः । तथा साध्यधर्मोऽपि प्रतिज्ञार्थंकदेशो हेतुत्वेनोपादीयमानो न प्रतिज्ञाथै कदेशत्वेनासिद्धस्तस्य धर्मिणा व्यभिचारात्प्रतिज्ञार्थंकदेशस्यापि धर्मिणोऽसिद्धत्वानुपपत्तेः किं तर्हि साध्यत्वे