________________
आप्तपरीक्षा। मोहस्तावदज्ञानं रागादिप्रपंचस्तेनाक्रांताद् गुरोमोक्षमार्गस्य यथोक्तस्य प्रणीतिर्नोपपद्यते यस्माद्रागद्वेषाज्ञानपरवशीकृतमानसस्य सम्यग्गुरुत्वेनाभिमन्यमानस्यापि यथार्थोपदोशत्वनिश्चयासभवात् तस्य वितथार्थाभिधानशंकानतिक्रमात् दूरे माक्षमार्गप्रणीतियतश्च तस्या मोक्षमार्गप्रणीतेविना मोक्षमाग्गै भावनाप्रकर्षपर्यंतगमनेन सकलकर्मलक्षणकलुषप्रध्वंसजन्यानंतज्ञानादिलक्षणा स्वात्मलब्धिः परमनिर्वृत्तिः कस्यचिन्न घटते तस्मात्तस्यै स्वात्मात्मब्धये त्वमेवाहन परमगुरुरिह शास्त्रादौ वंद्यः क्षीणमोहत्वात्करतलनिहितस्फटिकमणिवत्साक्षात्कृताशेषतत्त्वार्थत्वाच्च न यक्षीणमोहः साक्षादशेषतत्त्वानि दृष्टुं समर्थः कपिलादिवनापि साक्षादपरिज्ञाताशेषतत्त्वार्थो मोक्षमार्गप्रणीतये समर्थो न च तदसमर्थः परमगुरुरभिधातुं शक्यस्तद्वेदेवेति न मोहाक्रांतः परमनिःश्रेयसार्थिभिरभिवंदनीयः । कथमेवमाचार्यादयः प्रवंदनीयाः स्युरिति चेत् परमगुरुवचनानुसारितया तेषां प्रवर्तमानत्वादेशतो मोह. रहितत्वाञ्च तेषां वंदनीयत्वमिति प्रतिपद्यामहे तत एव परापरगुरुगुणस्तोत्रं शास्त्रादौ मुनींद्रर्विहितमिति व्याख्यानमनुवर्तनीय, पंचानामपि परमेष्ठिनां गुरुत्वोपपत्तेः कात्य॑तो देशतश्च क्षीणमोहत्वसिद्धेरशेषतत्त्वार्थज्ञानप्रसिद्धेश्च यथार्थाभिधायित्वनिश्चयाद्वितथार्थाभिधानशंकापायान्मोक्षमार्गप्रणीतौ गुरुत्वोपपत्तेस्तत्प्रसादादभ्युदयनिश्रेयससंप्राप्तेरवश्यंभावात्तदेवमाप्तपरीक्षैषा विहिता हितपरीक्षादक्षैर्विचक्षणैः पुनः पुनश्चेतसि परिमलनीयेत्याचक्ष्महे ।
न्यक्षेणाप्तपरीक्षाप्रतिपक्षं क्षपयितुं क्षमा साक्षात् ।
प्रेक्षावतामभीक्ष्णं विमोक्षलक्ष्मीक्षणाय संलक्ष्या ॥ १२२ ॥ श्रीमत्तत्वार्थशास्त्राद्भुतसलिलनिधेरिद्धरत्नोद्भवस्य
प्रोत्थानारंभकाले सकलमलभिदे शास्त्रकारैः कृतं यत् । स्तोत्रं तीर्थोपमानं प्रथितपृथुपथं स्वामिमीमांसितं तत् । विद्यानंदैः स्वशक्त्या कथमपि कथितं सत्यवाक्यार्थसिध्यै ॥१२३॥
इति तत्त्वार्थशास्त्रादौ मुनींद्रस्तोत्रगोचरा । प्रणीताप्तपरीक्षेयं कुविवादनिवृत्तये ॥१२४॥ विद्यानंदहिमाचलमुखपद्मविनिर्गता सुगंभीरा आप्तपरीक्षाटीका गंगावच्चिरतरं जयतु ॥ १ ॥ भास्वद्भासिरदोषा कुमतिमतध्वांतभेदने पढ़ी । आप्तपरक्षिालंकृतिराचंद्रार्क चिरजयतु ॥ २ ॥ स जयतु विद्यानंदो रत्नत्रयभूरिभूषणस्सबलं । तत्त्वार्थार्णवतरणे सदुपायः प्रकटितो येन ॥ ३॥
इत्याप्तपरीक्षा समाप्ता।