________________
૭૨
લલિતવિસ્તરા ભાગ-૨ तनभोभूषणाऽखण्डलकोदण्डाडम्बरः सौधर्मेशानसुरपतिपाणिपल्लवप्रेर्यमाणधवलचामरोपनिपातप्राप्तबलाकापङ्क्तिप्रभवशोभः सकलसत्त्वसाधारणाभिः सद्धर्मदेशनानीरधाराभिः स्वस्थीचकार निःशेषप्राणीहृदयभूप्रदेशानिति, ततः प्रवृत्ते तीर्थेऽन्यदा भानुमानिव भगवान् प्रबोधयन् भव्यपद्माकरान् दक्षिणापथमुखमण्डनं जगाम भृगुकच्छाभिधानं नगरमिति; समवससार च तत्र पूर्वोत्तरदिग्भागभाजिकोरिण्टकनामन्युद्याने।
अत्रान्तरे निशम्य निजपरिजनाद् जिनागमनम्, आनन्दनिर्भरमानसः समारुह्य जात्यतुरङ्गममनुगम्यमानो मनुजव्रजेनाजगाम जगद्गुरुचरणारविन्दवन्दनाय तन्नगरनायको जितशत्रुनामा नरपतिः; प्रणिपत्य सकलकमलानिकेतनं जिनपतिपदकमलमुपविष्टो घटितकरकुड्मलो भगवच्चरणमूले; समाकर्णितवान् कर्णामृतभूतां भगवद्देशनाम्, तदनु जाननपि जनबोधनाय विनयपूर्वं प्रणम्य पप्रच्छ परमगुरुं गणधरो, यथा- 'भगवन्नमुष्यां मनुष्यामरतिर्यक्कुलसङ्खलायां पर्षदि कियद्भिर्भव्यजन्तुभिरपूर्वैरभ्युपगतं सम्यक्त्वं, परीत्तः कृतः संसारसागरः; पात्रीकृतो निर्वृतिसुखानामात्मेति?' ततः कुन्दकान्तदन्तदीप्तिभि-रुद्योतयन्नभोऽङ्गणं जगाद जगन्नाथो, यथा-'सौम्य! समाकर्णय न केनचित् तुरङ्गरत्नमपहायापरेणेति,' ततः श्रुत्वा सर्वज्ञवचनमवोचज्जितशत्रुभूपतिः-'भगवन्! कौतुकाकुलित(प्र०... कलित)चित्तो जिज्ञासामि तुरगवृत्तान्तमहम्।
अन्यच्च-भगवन्नहमस्मिन्नश्वरत्ने समारुह्य चलितस्ते चलननलिनमभिवन्दितुम्, विलोक्य त्रिलोकीतिलकतुल्यं समवसरणमवतीर्णस्तुरङ्गमात्, प्रवृत्तः पद्भ्यामेवागन्तुम्, तावत्सकलजन्तुजातचित्तानन्ददायिनी सजलजलदनादगम्भीरां गम्भीरभवपाथोधिपोतोपमां समाकर्ण्य भगवद्देशनामानन्दपयःप्लावितपवित्रनेत्रपात्रो निश्चलीकृतकर्णयुगलः समुल्लसितरोमकूपो मुकुलिताक्षः क्षणमात्रमवस्थितोऽसावश्वः, तदनु पुनर्द्धर्मश्रवणविश्राणितश्रवणोपयोगः समागतः समवसरणतोरणान्तिकं, तत्र चापूर्वप्रमोदरसमनुभवन् भूमिन्यस्तजानुयुगलो गलन्निखिलाशुद्धकलिमलः(प्र०... कलमलः) कथयन्निव निजमानसविशदवासनां शिरसाऽभिवन्द्य भगवन्तं तथास्थित एवासितुमारब्धवान्, ततस्तदेवंविधमश्वविलसितं विलोक्य विस्मितोऽहं कदाचिददृष्टपूर्वाश्चर्यपूर्यमाणमानसः समागतो भगवत्समीपमिति, ततः कथयतु मथितमिथ्यात्वो भगवान् किमेतिदति', भगवता भणितं'सौम्य! समाकर्णय-समस्ति समस्तमेदिनीपद्मासद्मभूतं पद्मिनिखेटं नाम नगरं, तत्राभ्यस्तजिनधर्मो जिनधर्मनामधेयः श्रेष्ठश्रीसञ्चयसमाश्रयः श्रेष्ठी वसति स्म, तथाऽपरः सागरदत्ताभिधानः प्रभूतधननिधानं निखिलजनप्रधानं जिनधर्मश्रावकपरममित्रं दीनानाथादिदयादानपरायणस्तस्मिन्नेव पुरे श्रेष्ठी तिष्ठति स्म; स च प्रतिदिनं जिनधर्मश्रावकसमेतो याति जिनालयं, पर्युपास्ते पञ्चप्रकाराचारधारिणः श्रमणान्।
अन्यदा तच्चरणान्तिके धर्ममाकर्णयनिमां गाथामाकर्णयाञ्चकार, यथा-'जो कारवेइ पडिमं, जिणाण जियरागदोसमोहाणं। सो पावइ अन्नभवे भवमहणं धम्मवररयणं ।।१।।' अवगतश्चानेनास्या भावार्थो भवितव्यतानियोगतः, समारोपितश्चेतसि, गृहीतः परमार्थबुद्ध्या, निवेदितः स्वाभिप्रायः श्रावकाय, कृता तेनापि तदभिप्रायपुष्टिः, तदनु कारितवानसौ सकलकल्याणकारिणी कल्याणमयीं जिनपतिप्रतिमां, प्रतिष्ठापयामास स महता विभवेन, तेन च सागरदत्तश्रेष्ठिना पूर्वमेव नगरबहिष्कारितं रुद्रायतनम्।