________________
ધમનાયગાણ
સદા સત્ત્વાદિ ભાવને કારણે અહેતુક વિઘાતની અસિદ્ધિ છે, એ રીતે=અત્યાર સુધી વર્ણન st मेरीत, धर्मना नायsधर्मनायs, भगवान छ. ||२२||
ला :धर्मस्य नायकत्वे भगवतां साध्ये तद्वशीकरणादयश्चत्वारो मूलहेतवः, प्रत्येकं स्वप्रतिष्ठापकैः सभावनिकैश्चान्यैश्चतुर्भिरेव हेतुभिरनुगता व्याख्येयाः, तत्र तद्वशीकरणभावस्य मूलहेतोः (१) विधिसमासादनं, (२) निरतिचारपालनं, (३) यथोचितदानं, (४) तत्रापेक्षाभावश्च, एते सभावनिकाश्चत्वारः प्रतिहेतवः, द्वितीयस्य च तदुत्तमावाप्तिरूपस्य (१) प्रधानक्षायिकधर्मावाप्तिः, (२) परार्थसम्पादनं, (३) हीनेऽपि प्रवृत्तिः, (४) तथाभव्यत्वयोगश्चेत्येवंलक्षणाः। तृतीयस्य पुनस्तत्फलपरिभोगलक्षणस्य (१) सकल सौन्दर्य (२) प्रातिहार्ययोग, (३) उदारऱ्यानुभूतिः, (४) तदाधिपत्यभावश्चेत्येवंरूपाः। चतुर्थस्य तु तद्विघातानुपपत्तिरूपस्य (१) अवन्ध्यपुण्यबीजत्वं, (२) अधिकानुपपत्तिः, (३) पापक्षयभावो, (४) अहेतुकविघातासिद्धिश्चेत्येवंस्वभावाः सभावनिकाश्चत्वार एव प्रतिहेतवः, एते च भावनाग्रन्थेनैव व्याख्याता इति न पुनः प्रयासः। परं, _ 'एतद्वशिनः' इति, एषः अधिकृतो धर्मो, वशी:=वश्यो, येषां ते एतद्वशिन इति, विधिसमासादनेने ति, विधिसमासादितो ह्यर्थोऽव्यभिचारितया वश्यो भवति, न्यायोपात्तवित्तवद्, 'तत्रे'ति-दाने, 'वचनापेक्षेति, नहि भगवन्तो धर्मदाने अन्यमुनय इव पराज्ञामपेक्षन्ते, 'क्षमाश्रमणानां हस्तेन सम्यक्त्वसामायिकमारोपयामी'त्याद्यनुच्चारणात्।
'अश्वबोधाय गमनाऽकर्णनादिति, अश्वस्य-तुरङ्गमस्य, बोधाय सम्बोधाय, भगवतः श्रीमतो मुनिसुव्रतस्वामिनो भृगुकच्छे गमनश्रवणात्, तथाहि, 'किल भगवान् भुवनजनानन्दनो द्विषदुःसहप्रतापपरिभूतसमस्तामित्रसुमित्राभिधानभूपालकुलकमलखण्डमण्डनाऽमलराजहंसो भुवनत्रयाभिनन्दितपद्मापदपद्मावतीदेवीदिव्योदरशुक्तिमुक्ताफलाकारः श्रीमुनिसुव्रततीर्थनाथो मगधमण्डलमण्डनराजगृहपुरपरिपालितप्राज्यराजः सारस्वतादिवृन्दारकवृन्दाभिनन्दितदीक्षावसरः तत्कालमिलितसमस्तवासवविसरविरचितोदारपूजोपचारः चारकाकारसंसारनिस्सरणसज्जां प्रव्रज्यां जग्राह, तदनु पवनवदप्रतिबद्धतया निजचरणकमलपांशुपातपूतं भूतलं कुर्वन् कियन्तमपि कालं छद्मस्थतया विहत्य निशातशुक्लध्यानकुठारधाराव्यापारविलूनदुरन्तमोहतरुमूलजालः सकलकालभाविभावस्वभावावभासनपटिष्ठं केवलज्ञानमुत्पादयामास, समुत्पन्नज्ञानं च भगवन्तमासनचलनानन्तरं विज्ञाय भक्तिभरनिर्भरा निखिलसुरपतयो विहितसमवसरणादिरमणीयसपर्याः पर्यायेण यथास्थानमुपविश्य भगवन्तं पर्युपासयामासुः, भगवांश्च सनीरनीरद इव भव्यजन्तुसन्तानशिखिमण्डलोल्लासनस्वभावो भासुराभिनवाञ्जनपुञ्जसङ्काशकायः कषायग्रीष्मसमयसंतप्तप्राणिसंतापापनोददक्षो विक्षिप्तान्धकारभामण्डलतडिल्लतालङ्कृतः स्फुरद्धर्मचक्रकान्तिकलापोत्पादि