SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ નમુભૂર્ણ અરિહંતાણ सूत्रा: 'नमुत्थु णं अरिहंताणं' ।।१।। सूत्रार्थ : मरिहतीने नमस्कार थामओ. ||१|| ललितविस्तश:तल्लक्षणं च संहितादि, यथोक्तम्संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तन्त्रस्य षड्विधा ।। इति । एतदङ्गानि तु जिज्ञासा, गुरुयोगो, विधि इत्यादीनि । अत्राप्युक्तम्जिज्ञासा गुरुयोगो, विधिपरता बोधपरिणतिः स्थैर्यम् । उक्तक्रियाऽल्पभवता, व्याख्याङ्गानीति समयविदः ।। (१) तत्र 'नमोऽस्त्वर्हद्भ्य' इति संहिता। (२) पदानि तु 'नमः' 'अस्तु', 'अर्हद्भ्यः'। (३) पदार्थस्तु 'नमः' इति पूजार्थं, पूजा च द्रव्यभावसङ्कोचः, तत्र करशिरःपादादिसंन्यासो द्रव्यसङ्कोचः, भावसङ्कोचस्तु विशुद्धस्य मनसो नियोग इति, 'अस्तु' इति भवतु; प्रार्थनार्थोऽस्येति, 'णं' इति वाक्यालङ्कारे; प्राकृतशैल्या इति चेहोपन्यस्तः, 'अर्हद्भ्यः' इति देवादिभ्योऽतिशयपूजामहन्तीति अर्हन्तस्तेभ्यो नमःशब्दयोगे चतुर्थी। (४) पदविग्रहस्तु यानि समासभाजि पदानि तेषामेव भवतीति नेहोच्यते। (५) चालना तु अधिकृतानुपपत्तिचोदना यथा, 'अस्तु' इति प्रार्थना न युज्यते, तन्मात्रादिष्टासिद्धेः। (६) प्रत्यवस्थानं तु नीतितस्तनिरासः, यथा- युज्यते एव, इत्थमेवेष्टसिद्धेरिति। पदयोजनामात्रमेतद्, भावार्थं तु वक्ष्यामः। व्याख्याङ्गानि तु जिज्ञासादीनि, तद्व्यतिरेकेण तदप्रवृत्तेः। १. जिज्ञासा-'तत्र धर्म प्रति मूलभूता वन्दना, अथ कोऽस्यार्थः' इति ज्ञातुमिच्छा जिज्ञासा, न सम्यग्ज्ञानाद् ऋते सम्यक्क्रिया, 'पढमं नाणं तओ दया' इति वचनात्, विशिष्टक्षयक्षयोपशमनिमित्तेयं नासम्यग्दृष्टेर्भवतीति तन्त्रविदः। २. तथा गुरुणा यथार्थाभिधानेन स्वपरतन्त्रविदा परहितनिरतेन पराशयवेदिना सम्यक्सम्बन्धः; एतद्विपर्ययाद्विपर्ययसिद्धेः, तद्व्याख्यानमपि अव्याख्यानमेव। अभक्ष्यास्पर्शनीयन्यायेनाऽनर्थ
SR No.022463
Book TitleLalit Vistara Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages306
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy