________________
૧૧૩
નમુત્થણાં અરિહંતાણં तदभिधानात्, तदतिक्रान्तगोचरः शास्त्रातिक्रान्तविषयः, कुत इत्याह शक्त्युरेकात्-शक्तिप्राबल्यात्, विशेषेण, न सामान्येन शास्त्रातिक्रान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य, सामर्थ्याख्योऽयं-सामर्थ्ययोगाभिधानोऽयं योगः, उत्तमः सर्वप्रधानो, अक्षेपेण प्रधानफलकारणत्वादिति।।३।।
एतत्समर्थनार्यवाह- 'सिद्ध्याख्यपदसंप्राप्तिहेतुभेदा' इति मोक्षाभिधानपदसंप्राप्तिकारणविशेषाः सम्यग्दर्शनादयः, किमित्याह न तत्त्वतो=न परमार्थतः, शास्त्रादेव-आगमादेव अवगम्यन्ते, न चैवमपि शास्त्रवैयर्थ्यमित्याह- सर्वथैवेह योगिभिः-सर्वरेव प्रकारैः, इह-लोके, साधुभिः, अनन्तभेदत्वात् तेषामिति।।४।।
सर्वथा तत्परिच्छेदे शास्त्रादेवाभ्युपगम्यमाने दोषमाह- सर्वथा सर्वेः प्रकारैः, अक्षेपफलसाधकत्वादिभिः तत्परिच्छेदात् शास्त्रादेव सिद्ध्याख्यपदसंप्राप्तिहेतुपरिच्छेदात्, किमित्याह- साक्षात्कारित्वयोगतः केवलेनेव साक्षात्कारित्वयोगात् कारणात्, 'तत्सर्वज्ञत्वसंसिद्धेः'-श्रोतृयोगिसर्वज्ञत्वसंसिद्धेः, अधिकृतहेतुभेदानामनेन सर्वथा परिच्छेदयोगात्, ततश्च तदा श्रवणकाले एव, सिद्धिपदाप्तितः-मुक्तिपदाप्तेः, अयोगिकेवलित्वस्यापि शास्त्रादेवायोगिकेवलिस्वभावभवनेनावगतिप्रसङ्गाद्, अविषयेऽपि शास्त्रसामर्थ्याभ्युपगमे इत्थमपि शास्त्रसामर्थ्यप्रसङ्गात्।।५।।
स्यादेतत्-अस्त्वेवमपि, का नो बाधेत्यत्राऽह- न चैतदेवं (न 'एतद्'-) अनन्तरोदितम् (एवं); शास्त्रादयोगिकेवलित्वावगमेऽपि सिद्ध्यसिद्धः, यस्मादेवं, तस्मात् प्रातिभज्ञानसंगतो-मार्गानुसारिप्रकृष्टोहज्ञानयुक्तः, किमित्याह सामर्थ्ययोगः सामर्थ्यप्रधानो योगः सामर्थ्ययोगः, प्रक्रमाद्धर्मव्यापार एव क्षपक श्रेणिगतो गृह्यते, अयमवाच्योऽस्ति तद्योगिस्वसंवेदनसिद्धः सर्वज्ञत्वादिसाधनं, अक्षेपेणातः सर्वज्ञत्वसिद्धेः॥६॥
सामर्थ्ययोगभेदाभिधानायाऽह-द्विथा द्विप्रकारो, अयं सामर्थ्ययोगः, कथमित्याह- 'धर्मसंन्यासयोगसंन्याससंज्ञितः', 'संन्यासो'-निवृत्तिरुपरम इत्येकोऽर्थः, ततो धर्मसंन्याससंज्ञा सजाताऽस्येति धर्मसंन्याससंज्ञितः 'तारकादिभ्य इतच् । एवं योगसंन्याससंज्ञा सजाताऽस्येति योगसंन्याससंज्ञितः। क एते धर्माः? के वा योगाः? इत्याह- क्षायोपशमिका धाः=क्षयोपशमनिर्वृत्ताः क्षान्त्यादयो। योगाः कायादिकर्म तु= योगाः पुनः कायादिव्यापाराः कायोत्सर्गकरणादयः, एवमेव द्विधा सामर्थ्ययोग इति।।७।।
यो यदा भवति तं तदाऽभिधातुमाह- 'द्वितीयापूर्वकरण' इति, ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थ "द्वितीय'ग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः, 'अपूर्वकरणं' त्वपूर्वपरिणामः शुभोऽनादावपि भवे तेषु तेषु धर्मस्थानेषु वर्तमानस्य तथाऽसंजातपूर्वो ग्रन्थिभेदादिफल उच्यते।
तत्र प्रथमे अस्मिन् ग्रन्थिभेदः फलम् अयं च सम्यग्दर्शनफलः, सम्यग्दर्शनं च प्रशमादिलिग आत्मपरिणामः, यथोक्तम्-‘प्रशमसंवेगनिदाऽनुकम्पाऽस्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्' इति। यथाप्रधानमयमुपन्यासो, लाभस्तु पश्चानुपूर्वेति समयविदः। द्वितीये त्वस्मिंस्तथाविधकर्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिक्रमभाविनि, किम् ? इत्याह- 'प्रथम