________________
११०
सम्मतिताख्यप्रकरणस्यलब्धिलक्षणप्राप्ते सन्निहितदेशादावनुपलब्धेरपरमत्र नास्तीति इदानींतनानामियत्ता निश्चयः, तथा सर्वज्ञस्यापि। स्वशक्तिपरिच्छेदात् । अन्यथा घटादीनामपि कचित् प्रदेशेऽभावनिश्चयेऽपरप्रकारासंभवात्सकलव्यवहारविलोपः स्यात् । अथ यावदुपयोगिप्रधानपदार्थजातमित्याचप्ययुक्तम् । सकलपदार्थज्ञत्वप्रतिपादनात् । अत एव ज्ञो ज्ञेये कथमज्ञः स्यात् । असति प्रतिबन्धरि सत्येव दाह्ये नह्यग्निः क्वचित् दृष्टो न दाहक इति । अत्र यदुक्तम् ; किं सर्वज्ञत्वात् , अथ किञ्चिज्ज्ञत्वादिति; नोभयथापि हेतुः। यदि तावत् सर्वज्ञत्वादिति हेत्वर्थः परिकल्प्यते, तदा प्रतिज्ञार्थैकदेशो हेतुरसिद्ध एव । कथं हि तदेव साध्यं तदेव हेतुः । अथ किञ्चिज्ज्ञत्वादिति हेतुः, तदा विरुद्धता स्यात् । कथं हि किञ्चिज्ज्ञत्वं सर्वज्ञत्वेन विरुद्ध सर्वज्ञत्वं साधयेत् । अथ ज्ञत्वमात्रं हेतुः, तदाऽनैकान्तिकः । ज्ञत्वमात्रस्य किञ्चिज्ज्ञत्वेनाप्यविरोधादिति । तदपि निरस्तम् । सामान्येन सर्वज्ञत्वादित्यस्य हेतुत्वात् , विशेषेण तज्ज्ञत्वस्य साध्यत्वात् ; सामान्यविशेषयोश्च भेदस्य कथञ्चित्प्रतिपादयिष्यमाणत्वात् । सामान्येन सर्वज्ञत्वस्य चानुमानव्यवहारिणं प्रति साधितत्वात्। एतेन सूक्ष्मान्तरितदूरार्थाः कस्यचित् प्रत्यक्षाः प्रमेयत्वादित्यत्र प्रयोगे प्रमेयत्वहेतोर्यद् दूषणमुपन्यस्तं पूर्वपक्षवादिना, तदपि निरस्तम् । सर्वसूक्ष्मान्तरितपदार्थानां व्याप्तिप्रसाधकेनानुमानप्रमाणेन वा एकेन सामान्यतः प्रमेयत्वस्य प्रसाधितत्वात् । यच्च प्रधानपदार्थपरिज्ञानं न सकलपदार्थज्ञानमन्तरेण संभवतीति, तत् सर्वज्ञवचनामृतलवास्वादसंभवो भवतोऽपि कथञ्चित्संपन्न इति लक्ष्यते । तथाहि तद्वचः-"जो एगं जाणइ” इत्यादि । तन्मतानुसारिभिः पूर्वाचार्यैरप्ययमर्थो न्यगादि
"एको भावस्तत्त्वतो येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः ।
सर्वे भावाः सर्वथा येन दृष्टा एको भावस्तत्त्वतस्तेन दृष्टः" ॥ १ ॥ अस्यायमर्थः। नासर्वविदा कश्चिदेकोऽपि पदार्थस्तत्त्वतो द्रष्टुं शक्यः। एकस्यापि पदार्थस्यानुगतव्यावृत्तधर्मद्वारेण साक्षात्पारंपर्येण वा सर्वपदार्थसंबन्धिखभावत्वात्। तत्स्वभावावेदने च तस्यावेदनमेव । परमार्थतस्तज्ज्ञानं स्वप्रतिभासमेव वेत्तीति नार्थो विदितः स्यात् ; केवलं तत्राभिमानमात्रमेव लोकस्य । अथ संब