________________
तत्त्वबोधविधायिनी व्याख्या । प्तिरिति । तदयुक्तम् । तथाऽनभ्युपगमात्। शास्त्रार्थे क्रमेणानुभूतेऽप्यत्यन्ताभ्यासान्न क्रमेण संवेदनमनुभूयते; तद्वदत्रापि स्यात्। यदप्यभ्यधायि । अथ युगपसर्वपदार्थवेदकं तज्ज्ञानमभ्युपगम्यते तदा परस्परविरुद्धानां शीतोष्णादीनामेकज्ञाने प्रतिभासासंभवात् ; संभवेऽपीत्यादि । तदप्ययुक्तम् । यतः परस्परविरुद्धानां किमेकदाऽसंभवः, किंवा संभवेऽप्येकज्ञानेऽप्रतिभासनं भवता प्रतिपादयितुमभिप्रेतम् । तत्र यद्याद्यः पक्षः। स न युक्तः। जलानलादीनां छायाऽऽतपादीनां चैकदा विरुद्धानामपि संभवात्। अथैकत्र विरुद्धानामसंभवः, तदाऽसंभवादेव नैकत्र ज्ञाने तेषां प्रतिभासो, न पुनर्विरुद्धत्वात्। विरुद्धानामपि तेषामेकज्ञाने प्रतिभाससंवेदनात् । एतेन विरुद्धार्थग्राहकस्य च तज्ज्ञानस्य न प्रतिनियतार्थग्राहकत्वं स्यादित्याद्यपि निरस्तम् । छायाऽऽतपादिविरुद्धार्थग्राहिणोऽपि ज्ञानस्य प्रतिनि. यतार्थग्राहकत्वसंवेदनात् । यच्चोक्तम् । यदि युगपत्सर्वपदार्थग्राहकं तज्ज्ञानं तदैकक्षण एव सर्वपदार्थवेदनात् द्वितीयादिक्षणे किञ्चिज्ज्ञ एव स स्यादित्यादि। तदप्यत्यन्तासंबद्धम् । यतो यदि द्वितीयक्षणे पदार्थानां तज्ज्ञानस्य चाभावः स्यात्, तदा स्यादप्येतत् ; नचैतत्संभवति। तथाऽभ्युपगमे द्वितीयक्षणे सर्वपदार्थाभावात्सकलसंसारोच्छेदः स्यात् । यदप्यभ्यधायि । अनाद्यनन्तपदार्थसंवेदने तत्संवेदनस्यापरिसमाप्तिरित्यादि। तदप्ययुक्तम् । अत्यन्ताभ्यस्तशास्त्रार्थज्ञानस्येव युगपदनाद्यनन्तार्थग्राहिणस्तज्ज्ञानस्यापि परिसमाप्तिसंभवात् । अन्यथा भूतभविष्यत्सूक्ष्मादिपदार्थग्राहिणः प्रेरणाजनितज्ञानस्यापि कथं परिसमाप्तिः। तत्राप्यपरिसमाप्त्यभ्युपगमे, 'चोदना भूतं भवन्तं भविष्यन्तम्' इत्यादिवचनस्य नैरर्थक्यं स्यादिति । यदपि, परस्थरागादिसंवेदने सरागः स्यादित्यादि।तदप्यसङ्गतम् । नहि परस्थरागादिसंवेदनाद्रागादिमान् भवति। अन्यथा श्रोत्रियद्विजस्यापि स्वप्नज्ञानेन मद्यपाना. दिसंवेदनान्मद्यपानदोषः स्यात् । अथाप्यरसनेन्द्रियजं तज्ज्ञानमिति नायं दोषः, तर्हि सर्वज्ञज्ञानमपि नेन्द्रियजमिति कथमशुचिरसास्वाददोषस्तत्रासज्येत । नच रागादिसंवेदनाद्रागीति लोके व्यवहारः, किन्त्वङ्गनाकामनाघभिलाषस्वसंविदि. तस्याशिष्टव्यवहारकारिणः स्वात्मस्वभावस्योत्पत्तेः। नचासौ तत्रेति कथं स रागादिमान्।यदपि, अथ शक्तियुक्तत्वेन सर्वपदार्थवेदनमित्यादि। तदप्यचारु। यथोप