SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ www.mannaam 乐东法求求求求求求求求求求求东东志成本法求求求求求求求求求求东东光 ____ आतपरीक्षा. येनाशेषजगत्यस्य सर्वज्ञस्य निषेधनम् । परोपगमतस्तस्य निषेधे वेष्टवाधनम् ॥ १०७ ॥ मिथ्यैकान्तनिषेधस्तु युक्तोऽनेकान्तसिद्धितः । नासर्वज्ञजगत्सिद्धेः सर्वज्ञप्रतिषेधनम् ॥ १०८ ॥ एवं सिद्धः सुनिर्णेतासम्भवद्वाधकत्वतः। सुखवद्विश्वतत्त्वज्ञः सोऽहन्नेव भवानिह ॥ १०९ ॥ स कर्मभूभृतां भेत्ता तद्विपक्षप्रकर्षतः । यथा शीतस्य भेत्तेह कश्चिदुष्णप्रकर्षतः ॥ ११० ॥ तेषामागमिनां तावद्विपक्ष: संवरो मतः । तपसा सञ्चितानान्तु निर्जरा कर्मभूभृताम् ॥ १११ ॥ तत्प्रकर्षः पुनः सिद्धः परमः परमात्मनि । तारतम्यविशेषस्य सिद्धरुष्णप्रकर्षवत् ॥ ११२ ॥ कर्माणि द्विविधान्यत्र द्रव्यभावविकल्पतः । द्रव्यकर्माणि जीवस्य पुद्गलात्मन्यनेकधा ॥ ११३ ॥ भावकाणि चैतन्यविवर्त्तात्मनि भाति तु । क्रोधादीनि स्ववेद्यानि कथंचिच्चिदभेदतः ॥ ११४ ॥ तत्स्कन्धराशयः प्रोक्ता भूभृतोऽत्र समाधितः । जीवाद्विश्लेषणं भेदः सन्तानात्यन्तसंक्षयः ॥ ११५ ॥ स्वास्मलाभस्ततो मोक्षः कृत्स्नकर्मक्षयात्मनः । निर्जरात्संवराभ्यां नुः सर्वसद्वादिनामिह ॥ ११६ ॥ नास्तिकानान्तु नैवास्ति प्रमाणं तन्निराकृतौ । प्रलापमात्रकं तेषां न वाधेयं महात्मनाम् ॥ ११७ ॥ ****TRIPATRAPARTY tattatistskstatistatistikkakkattttttttttttttttakitatistiatiktattattattattt* 求求求求求求求求求未来求求求求求求求求求求求求求求求求求求求求求求求求求来来来来来来来来来客来来来来来来来来来
SR No.022460
Book TitleAapt Mimansa
Original Sutra AuthorN/A
AuthorLalaram Digambariya Jain
PublisherJain Granthratna Karyalay
Publication Year1904
Total Pages32
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy