________________
ままままままままままままままままままままままままままままままま本名
___ जैनग्रन्थरत्नाकरे.
htttttttttttttik***********************tkkattkakkar
सुनिश्चितान्वयाद्धेतोः प्रसिद्धन्यतिरेकतः । ज्ञाताहन्विश्वतत्त्वानामेवं सिध्येदवाधितः ॥ ९६ ।। प्रत्यक्षमपरिच्छिन्दत्रिकालं भुवनत्रयम् । रहितं विश्वतत्त्वज्ञैर्न हि तद्वाधकं भवेत् ॥ ९७ ॥ नानुमानोपमानार्थापत्त्यागमबलादपि । विश्वज्ञाभावसंसिद्धिस्तेषां सद्विषयत्वतः ॥ ९८ ॥ नाहन्निःशेषतत्त्वज्ञो वक्तृत्वपुरुषत्वतः । ब्रह्मादिवदिति प्रोक्तमनुमानं न वाधकम् ॥ ९९ ॥ हतोरस्य विपक्षेण विरोधाभावनिश्चयात् । वक्तृत्वादेः प्रकर्षेऽपि ज्ञानानिहर्हाससिद्धितः ॥ १०० नोपमानमशेषाणां नृणामनुपलम्भतः । उपमानोपमेयानां तद्वाधकमसम्भवात् ॥ ॥ १०१ ॥ नार्थापत्तिरसर्वज्ञं जगत्साधयितुं क्षमा । क्षीणत्वादन्यथाभावाभावात्तत्तदवाधिका ॥ १०२ ॥ नागमोऽपौरुषेयोऽस्ति सर्वज्ञाभावसाधनः । तस्य कार्येप्रमाणत्वादन्यथानिष्टसिद्धितः ॥ १०३ ॥ पौरुषेयोऽप्यसर्वज्ञप्रणीतो नास्य वाधकः । तत्र तस्याप्रमाणत्वाद्धर्मादाविव तत्त्वतः ॥ १०४ ॥ अभावोऽपि प्रमाणं ते निषेध्याधारवेदने । निषेध्यस्मरणे च स्यान्नास्तिता ज्ञानमञ्जसा ॥ १०५ ॥ न चाशेषजगज्ज्ञानं कुतश्चिदुपपद्यते ।
नापि सर्वज्ञसंवित्तिः पूर्व तत्स्मरणं कुतः ॥ १०६ ॥ *FFFFFFTTERPRETARY ***
这就速速来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来来名