________________
(१४)
सकलादेशरूपान्य-रूपाभ्यामुदिता द्विधा । कथ्यते विषयश्चाथ, परिच्छेद्यं च गोचरः ॥७५॥ अनेकान्तात्मक वस्तु, सामान्येतरमुख्यकम् । तद्गोचरश्च तवेधा, तिर्यगूर्ववभेदतः ॥ ७६ ।। विशेषोऽपि द्विधा प्रोक्तो गुणपयायभेदतः । सहभावी गुणो धर्मः, क्रमभावी तथाऽपरः ॥७७|| फलं चाथ प्रमाणस्य, द्विविधं परिकीर्तितम् । अनन्तरफल वाद्य, परम्परफलं परम् ॥ ७८ ॥ फलमज्ञाननिवृत्तिः, सर्वेषामादिमं मतम् । आदानत्यजनोपेक्षा-बुद्धयश्चापरं फलम् ॥ ७९ ॥ केवलस्य तु विज्ञेय-मोदासीन्यं फलं परम् ॥ तत्स्याद्भिन्नमभिन्नं च, प्रमाणाच प्रमातृतः ॥८॥ क्रिया क्रियावतो यस्माद्-भेदाभेदविभूषिता । कती हि साधकः प्रोक्त-स्तन्निवत्या भवेत् क्रिया ८१