________________
(१५)
प्रमाणादिव्यवहृति- रियं स्यात्पारमार्थिको। संवृत्या तदुरीकार्ये, स्वेष्टसिद्धिविरोधिता ॥ ८२ ॥ एवं प्रमाणमाख्यातं, स्वरूपादिचतुष्टयात् । विपरोतस्तदाभासो, विशेषस्तु प्रदर्श्यते ॥ ८३ ॥ पक्षाभासास्त्रयस्तत्र मध्यमोऽनेकभेदभृत् । प्रत्यक्षप्रमुखैर्यस्मात्, साध्यधर्मनिराकृतिः ॥४॥ हेत्वाभासः परिज्ञेयो, भाषितो मुनिपुङ्गवैः । असिद्धश्च विरुद्धश्चा- नैकान्तिक इति त्रिधा॥८५॥ अप्रतीतस्वरुपः स्या- दसिद्धा द्विविधः स च । उभयासिद्ध आद्यश्चा- न्यतरासिद्धकोऽपरः ॥८६॥ साध्यविपर्ययव्याप्तो- विरुद्धः प्रथितो भुवि। . अन्यथानुपपत्तेश्च, संदेहात्स्यात्तृतीयकः ॥ ८७ ॥ विपक्षवृत्तिसंदेह- निर्णयाभ्यां द्विधास्त्ययम् । चतुर्धा पञ्चधा चैव, हेत्वाभासो मतोऽपरैः।। ८८ ॥