________________
( १३ )
अभिधेयानि वस्तूनि, यो जानीते यथास्थिति । अभिधत्ते यथाज्ञानं, स आप्तोयं द्विधा मतः ॥ ६८ ॥ लौकिको जनकादिः स्या- लोकोत्तरश्च तीर्थकृत । तेषां ह्येव वचः शून्यं, विसंवादेन दृश्यते ॥ ६९ ॥ आविर्भूता च तद्वाचोऽथ संविन्मत आगमः । उपचाराद् भवेदाप्त-वचनं वक्ष्यतेऽथ तत् ॥ ७० ॥ आदिः पैौद्गलिको वर्णे, वर्णानां निरपेक्षिका । अन्योऽन्यापेक्षकाणां च, पदं संहतिरुच्यते ॥ ७१ ॥
वाक्यं स्याच्च पदानां तु वचनं तत्रयात्मकम् । सामर्थ्य मर्थशक्तिः स्यात्, सङ्केतः समयो मतः ७२ ताभ्यां स्वाभाविकाभ्यां स्याच्छन्दोऽर्थस्य विबोधकृत् अयं विधिनिषेधाभ्यां लभते भङ्गसप्तकम् ॥७३ ॥
"
अनन्तत्वेऽपि धर्माणां सप्तभङ्ग्येव यन्मता । तद्धि पर्यनुयोगानां सप्तानामेव सम्भवात् ॥७४॥
"