________________
(१२)
उपसंहरणं चैवं, तान्यवयवसंज्ञया । पञ्चाप्यत्र प्रसिद्धानि, पण्डितानां प्रयोजने ॥ ६१ ॥ उपलब्ध्यनुपलब्धि-भेदाद्धेतुर्दिधा मतः । विधिनिषेधयोरेती, क्रमासिद्धिनिबन्धने।। ६२ ॥ सदंशोऽत्र विधिज्ञेयः, प्रतिषेधोऽसदंशकः । चतुर्विधः सविज्ञाना--मुत्तमैः परिकीर्तितः ॥ ६३ ॥ पूर्वप्रध्वंसकान्योन्या-ऽत्यन्ताभावप्रकारतः । ज्ञेयः सोऽथोपलब्धिं च, प्रभेदेन प्रदश्यते ॥ ६४ ॥ अविरुद्धा विरुद्धा च तत्राद्याः षडविधा मता। सा साध्येनाविरुद्धानां व्याप्यादीनां विभाविता ६५ सप्तधाऽन्यो समाख्याता, स्वभावादिविरोधिनी । तथैवानुपलब्धिः स्याद- द्विधाऽपि नवरं त्विदम् ६६ विरुद्धानुपलब्धिश्च, पञ्चभेदा विभाविता । इतरा सप्तधा ज्ञेया, क्रमाद्विधिनिषेधकृत् ॥६७॥