________________
(११) अनुमानं द्विधा स्वार्थ, परार्थ चादिम विदम् । हेतुग्रहणसम्बन्ध-स्मृतिहेतुकसाध्यवित् ॥ ५४ ॥ हेतुश्च निश्चितान्यथा-नुपपत्येकलक्षणः । अन्यथानुपपत्तिश्च साध्यधर्मेण गृह्यते ॥ ५५ ॥ अप्रतोतं च साध्यं स्या-दनिराकृतमीप्सितम् । विषयभागात् साध्यत्वं भिन्न भिन्नमुदाहृतम्॥५६।। पक्षहेतुवचो रूपं, परार्थमुपचारतः । दृष्टान्तायत्र नैवाङ्गं, वस्तुतो हेतुरेव च ॥ ५७॥ क्वचित्प्रयुज्यते नाम, दृष्टान्तादिरिहापि च । स्याद् दृष्टान्तोऽविनाभाव-प्रतिपत्तेः किलास्पदम् ५८ उधोक्तोऽथ स साधर्म्य- वैधाभ्यां सुधीमुखैः। अन्तर्व्याप्तिर्बहियाप्तिश्चेति व्याप्तिर्दिधा मता।।५९॥ उपनयो निगमनं, यथासङ्ख्यमथोच्यते। साध्यधर्मिणि यद्धेतोः, साध्यधर्मस्य वा पुनः ॥६०॥