________________
(१०) तहतो दोषमुक्तत्वा-दहत्त्वं प्रतिपादितम् । तस्माच्च तत्र नैवेष्टा क्षित्यादीनां तु कर्तृता ॥ ४७॥ जन्यत्वं च शरीरेणो-पाधिना समलङ्कृतम् । इति प्रत्यक्षमाख्यातं, परोक्षं चाथ कथ्यते ॥ ४८ ॥ तदस्पष्टं समाख्यातं, पञ्चधा पूर्वपण्डितैः । तत्प्रपञ्चोऽथ विज्ञेयो-वक्ष्यमाणो यथानयम् ॥ ४९॥ संस्कारबोधसम्भूत-मनुभूतार्थगोचरम् ॥ तदित्याकारकं ज्ञानं, स्मरण कथितं बुधैः ॥ ५०॥ तिर्यगूर्ध्वत्वसामान्य-प्रभृत्यालम्बनं तथा। संकलनात्मकं ज्ञानं, प्रत्यभिज्ञानमिष्यते ॥ ५१ ॥ त्रिकालवतिनोर्यः स्यात्, साध्यसाधनयोः खलु । सम्बन्धादिस्तदालम्ब-मूहापरनामकम् ॥ ५२ ॥ उपलम्भेतरोद्भगतं, विज्ञान परिकीर्त्यते ॥ सत्येवास्मिन्निदं चेति, तर्कस्तार्किकशेखरैः ॥५३॥