________________
( ९ )
श्रुतज्ञानं समाख्यातं चतुर्दशविधं जिनैः । अक्षरं संज्ञि सम्यक् च, सादिसान्तं तथा गमि ॥४० एवमङ्गप्रविष्टं च, प्रतिपक्षान्वितं मतम् । सांव्यवहारिकं प्रोक्तं मयैवं च यथामति ॥ ४१ ॥ पारमार्थिक मुत्पत्ता-वात्ममात्रतमाश्रितम् । विकलं सकलं चाद्य-मवधिर्मन आख्यकम् ॥ ४२ ॥ विशिष्टावृतिविच्छेदा- दवधी रूपगोचरः । मनःपर्यीयकं ज्ञानं, हृदयमात्रगोचरम् ॥ ४३ ॥ अनेकार्द्धनिधानानां शुद्धसंयमशालिनाम् ।
पुष्करार्द्धमाख्यातं, संज्ञिनां चित्तवेदकम् ॥४४॥
अवधिज्ञानमेवेद - माहुर्नव्या महाशयाः । सूत्रे भेदाभिधानं च, धर्मभेदाभिप्रायतः ॥ ४५ ॥ घातिकर्मक्षयोद्भूतं, सर्वभावप्रकाशकम् । केवलज्ञानमाख्यातं, सकलं सकलं सदा ॥ ४६ ॥