________________
(८) इन्द्रियमिन्द्रलिङ्गं स्याद्-इन्द्रदृष्टं तथैव च । इन्द्रसृष्टमिन्द्रजुष्ट-मिन्द्रश्चात्मा प्रकीर्तितः ॥३३॥ तच्चोक्तं पञ्चधा स्पर्श-जिह्वाघ्राणाक्षिकर्णतः। द्विधा तद्रव्यभावाभ्यां, ते द्वेऽप्येवं द्विधा मते॥३४॥ निर्वृत्तिरुपकरणं, द्रव्यतस्तत्र भाव्यताम् । लब्धिश्चाथोपयोगश्च, भावतः परिभावितम् ॥३५॥ स्पर्श-रस-गन्ध-वर्ण--शब्दा अनुक्रमादिमे।। एतेषां विषया ज्ञेया-वक्ष्यन्तेऽधश्च तद्विधाः ॥३६॥ अनिन्द्रियं मनो वैध, द्रव्यभावप्रकारतः। एतद्द्वयं भवेद्वेधा, मतिश्रुतविकल्पतः ॥ ३७॥ स्थाचताननुसार्याद्य-मितरं चेतरं मतम् । अवग्रहादिका प्रोक्ता, चतुर्धेव मतिर्यतः ॥ ३८ ॥ इहा स्यात् संशयाद्भिन्ना, संशयोत्तरभाविनी । क्रमश्चष तथाहेतु-क्षयोपशमभावतः ॥ ३९ ॥