________________
( ७ )
विपर्ययः संशयोऽन-ध्यवसाय इति त्रिधा । अधिज्ञेयः स तत्राद्यो, विपर्ययः प्रदश्यते ॥ २६ ॥ विककोटेः स्यान्निष्टङ्कनं विपर्ययः । भवेद्यथा शुक्तिकायां, रजताकारतामतिः ॥ २७ ॥ तत्संशयोऽनवस्थिता ऽनेक कोटथवलम्बि यत् । ज्ञानं साधकबाधक प्रमाणानुपलम्भतः ॥२८॥ यथा स्थाणुरयं किं वा ? भवेद्वा पुरुषश्च किम् ? | अथानध्यवसायस्थ, स्वरूपं किञ्चिदुच्यते ॥ २९ ! स विद्वद्भिः समाख्यातः किमित्यालोचमात्रकम् । ज्ञानं यत्तद्यथा गच्छ- तृणस्पर्शस्य शेमुषी ॥ ३० ॥ तच्च द्विधाऽथ प्रत्यक्षं, परोक्ष तत्र चादिमम् । स्पष्टं तत्स्पष्टता तत्र, यद्विशेषप्रकाशनम् ॥ ३१ ॥ सांव्यवहारिकपार - मार्थिकत्वेन तद्विधा । सांव्यवहारिकं तत्रेन्द्रियानिन्द्रियहेतुकम् ॥ ३२ ॥