________________
बहुबहुविधक्षिप्रो- निश्रितनिश्चितध्रुवाः । सेतरा इति षट्त्रिंशत्- त्रिशतप्रभिदा मतिः ॥१९॥ मतिपूर्व श्रुतं द्वैध-मङ्गबाङ्गप्रविष्टकम् । अनेकभेदं तत्राद्यं, ज्ञेयं सामायिकादिकम् ॥ २०॥ अङ्गप्रविष्टमांचाराङ्गादि द्वादशधा मतम् । द्विधावधिभवहेतुः, क्षयोपशमहेतुकः ॥ २१॥ द्वितीयस्तत्र विज्ञेयः, षड्विकल्पसमन्वितः । आनुगामिवद्धमाना-वस्थितेतरभेदतः ॥ २२ ॥ मनः पर्यायकं नाम, ज्ञानं द्विविधमिष्यते । ऋजुमतिविपुलधीः, केवलं केवलं मतम् ॥२३॥ प्रमाणं च तदेव स्यात्, स्वपरव्यवसायकम् । व्यवसायस्वभावं तत्, पण्डितैः परिकीर्तितम् ॥२४॥ यतस्तस्यास्ति प्रामाण्यं, समारोपविरोधिता। समारोपोऽतस्मिस्तद-ध्यवसायोऽधिगम्यताम् ॥२५॥