SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अनुमानपरिच्छेदः । अन्नोनाणुगवाणं इमं च तं वित्ति विभयणमजुत्तं । जहखीरपाणियाण मिति । नन्वशेषाभावानुभवे युगपत्स्मरणमुत्पद्यते तेन किच्चितद्यतो नानुभूतं स्मर्यत एव किन्त्वननुभूतमेव । तेनाशेषा. भावानुभवेऽपि यस्य प्रतिषिध्यमानपदार्थस्मरणे प्रश्नादिनिमित्तमस्ति तस्यैव स्मृतिर्नान्येषामिति । विरोधपरिहा. रञ्चभिधास्यतीति । तदेवं न प्रमाणभावः प्रमाणमित्यतः साधूक्तम् । द्विधामेयविनिश्चयादिति यत् सूत्रे द्वैविध्य प्रत्यक्षं च परोक्षं चेत्युक्त तदेव व्याख्यातुमाह- प्रत्य क्षमिति । प्रतिगतमक्षं प्रत्यक्षमिति । प्राप्तापनेत्यादिना तत्पुरुषे परवलिङ्गनाप्रतिषेधात् त्रिलिङ्गः प्रत्य. क्षशब्दः । गमनक्रियेव गोत्वस्यानाधिनत्वमर्थमाक्षात्कारित्वस्यो पलक्षणम् । नानक्षजेष्वपि तच्छब्दवाच्यता नायुका । इदानीं तस्य लक्षणमाह। विशदमिति । अथ किमिदं वैशद्यम् । न तावन्निर्विकल्पकत्वम् । अनभ्युपगमात्। अथ स्पष्टत्वं तदा बालापेक्षया वृद्धस्यापि प्रत्यक्षं न स्पष्टम् । तथा दूरवस्तुनि प्रत्यक्षं चेति । अथ तच्छ्रतं तदा सदिन्द्रियजत्यादथ त्रिधा श्रुतं प्रत्यक्षपूर्वक लैङ्गिक शाब्दं चेति। तन्न । प्रत्यक्षपूर्वकस्य प्रमाण भूतस्य लैङ्गिकत्वात् । नच तदप्रमाणम् । मापि लैङ्गिकम् । व्या प्तिस्मरणादेर ननुभावात् । यत्प्रत्यक्षेण परोपदेशसहकारिणा शब्दोल्लेखि ज्ञानं जन्यते तत्प्रत्यक्षपूर्व के पौतम् । तच्चाप्रमाणम् । प्रत्यक्षनिश्चितार्थे प्रवर्त्तमामत्वात् । तस्माद्यदुक्त विधा श्रुतमविप्लवमिति सदसंगतम् । विप्लवस्योक्तत्वात् । न येन च मूढस्य प्रत्यक्षेऽपि वस्तुनि . पूर्वसाधादर्थक्रियाकारित्व निश्चयः क्रियते नित्यानित्यत्वनिश्चयो वा तल्लैङ्गिकम् । न चैवं
SR No.022458
Book TitleJain Tark Vartikam
Original Sutra AuthorN/A
AuthorVitthal Shastri
PublisherBhagavati Prasad
Publication Year1917
Total Pages170
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy