________________
- अनुमानपरिच्छेदः। एतदपरे दूषयन्ति । प्रश्नकाले एवाभावावगमे तद्भा वाशङ्का न निवर्तत । तथा च तस्योत्तरम् । मया पूर्व न दृष्टस्तत्र तेन तदानीमा नास्ति । नेदानीमितीदृश्येव च संवित्तिस्तदानीं नासीन्नेदानीमिति ॥ तन्न प्रश्नकाले भावावगमः । ननु पूर्वमप्यवगमे सर्वस्मरणलक्षणदूषणामभिहितम् । उभयत्र दूषण सद्भावात संशयोऽस्तु न निश्च. यः। अतोऽभावस्य प्रमाणान्तरगम्यत्वे पूर्वोक्त एव न्यायो न त्वनन्तराभिहितः । अत्रेोच्यते । एतावदुक्तमभावो नेन्द्रियसं. निकर्षाभावान्न प्रत्यक्षगम्योऽभाव इति । तदसत् । संनिकर्षस्य पूर्वमेव निरस्तत्वात् । प्राप्यकारित्वे चक्षुषः स्पर्शनेन्द्रियस्येव बहूयादिना दाहाद्यापद्येत । तथाऽप्राप्यकारित्वेऽपि किं न भवति? । अयोग्यत्वान्नेति चेत्। तहि योग्यतैव ग्रहणनिबन्धनं, न सब. न्धस्तेम भाववदभावेऽपि योग्यत्वादक्षमध्यक्षमुत्पादयति । किं च नेन्द्रियसंबन्धात्प्रत्यक्षं वस्तु किं तु प्रत्यक्षविषयत्वात्। अन्यथा. काशादेरपि प्रत्यक्षता स्यात् । तथा वा चक्षुषि रसस्यापि प्रतिक्षासामवेत । तत्रापि संयोगसंयुक्तसमवायद्वारेणैकार्थसमवायस्य वा संयुक्तविशेषणमावस्य वा भावात् । ननूक्तं योग्यात्वादिन्द्रियस्य हि त्वभावं विनैव योग्यतैव नास्ति । ननु भावांशे कथं योग्यता? । तिद्विषयज्ञानोत्पत्तेरिति चेत् । प्रभावांशेऽपि समानम् । तथा यस्तीति ज्ञानस्येव नास्तीति ज्ञानस्यापीन्द्रियान्वयव्यतिरेकानुविधानं तुल्यमस्त्येतत्किन्त्वन्यस्मात सिद्धं तद्भावभाविस्वंम । यथा धूमादग्निदर्शने रूपज्ञानस्य चेन्द्रियजत्वं तद्गतस्पशंज्ञानस्य तस्य रूपदर्शने सति भावात् । एवमिहापि भूतलग्रइखे सति नास्तीति विज्ञानस्वभावे तगोवनावित्वं द्रष्टव्यम् ।
गृहित्वा वस्तुमद्धावं स्मृत्वा च प्रतियोगिनम् ।