________________
वार्तिकवृत्तौ ।
୯୮
दिष्वपितुल्यम् । तेऽपि न परस्यार्धक्रियां कुर्वन्ति । अथ वस्त्वतरसाध्यार्थक्रियाकरणेऽपि स्वकार्यकर्तृत्वं तेषामस्तीत्युच्यते तत्प्रच्यु तेरपि न केनचिद्वारितम् । तथाहि पोताद्यवच्छेदक एवं प्रच्युतेभवद्भिरभ्य पगतं, तदनुमानवद्दर्शन पृष्ठभाविविधिविकल्पवच्च प्रतिषेधविकल्पस्यापि प्रामाण्यम् । तन्नानुपलब्धे लिंङ्गादसद्ध्यबहारयेोग्यताऽनुमीयते । किं स्वभाव एव तत्र प्रमाणान्तरगम्या न तु सदुपलम्भप्रमाणगम्यः । पूर्वोक्त ेन न्यायेनेतश्चैतन्न | यतः कश्चित् कुतश्चिदागतः पृच्छयते । तत्र प्रदेशे चैत्रः स्थितो न बे ति । स प्रश्नो चैत्र स्मृत्वा तद्भावमवगत्यं वक्ति न तत्र स्थितः न च तत्र सदभावावगमे तस्य तदानीमिन्द्रियव्यापरः । नापि लिङ्गं किञ्चिद्विद्यते । न चानुपपद्यमानः । नाप्यागम, उपमानं वा । न च तदप्रतिपत्तिर्नास्ति । प्रश्नस्योत्तरदानात् । नापीयं स्मृतिः । पूर्वं तदभावानवगमात् । प्रतिषिध्यमान पदार्थस्मरणं तदभावावगमे निमित्तम् । तच्च निमित्ताभावात् पूर्वं तस्य नात्पन्नं इदानों प्रश्ने सति सञ्जातम् । अथेोत्पत्तेः पूर्वमेव तत्रोपलब्धिलक्षणप्राप्तावशेषवस्त्वभावग्रहणम् । मेचकबुझ्या तस्मिन् सति यस्य स्मरणादि सहकारिकारणमस्ति तस्य तस्य व्यक्तितिरस्कृतमग्रहोत् तस्य स्फुटप्रतिभासविशेष्यता । एत दुसाधु। यतोऽस्य ग्रहणं भवद्विकल्पद्वयं नातिवर्तते । स्वतन्त्र स्याशेषवस्त्वभावस्य ग्रहणमन्योपसर्जनस्य वा प्राप्त विकल्पेनैकाभावस्मरणं भवेत् । सर्वेषां सहगृहीतत्वात् । तेनान्योपसर्जनत्वेन ग्रहणं व्याख्यातम् । तस्मृतिरपि न भवति । न च सदुपलम्भकं तदवगमे किञ्चित्प्रमाणमस्ति । परिशेषादभावारूपात् प्रमाणात्तस्यावगमः । तदुक्तम् । स्वरूपमात्रं दृष्टं च पश्चात्कश्चिस्मरन्नपि । तत्रान्यो नास्तितां पृष्टस्तदैव प्रतिपद्यते