________________
अनुमानपरिच्छेदः। स्यात् । ततः प्रतिभास्यं तावदसत्वान प्रतिमासेपि वक्ष्य. माणात् स्वसंवदननिषेधान्नैव । न च वस्त्वन्तरमस्ति । अतो नारत्तीति विकल्पोत्पादानुत्पादयोः प्रतिभासामापातुल्यता प्रसक्ता । अथ भेदानुमानस्य प्रतिमासस्य संभवात्प्रत्यक्षानुमानयाविषयभेदाढ़ेदेोऽस्ति । प्रमाणत्वात् नास्तीति विकल्पस्य पुनर्न प्रतिभास्योऽस्ति । नापि प्रमाणत्वम्।अतस्तत्तुल्यता तस्य न युक्ता । नन्वनुमानेऽपि नैव प्रतिभास्यं वस्त्व स्ति । श्रारोपितस्य तद्विषयत्वे नाभ्युपगमात् । तच्च नास्तीति विकल्पेऽपि न दण्डधारितम् । यथा युक्तिवाधितत्वेऽपि तद्विषयस्याभ्युपगमस्तथा नास्तीति विकल्पविषयस्यापि तत्प्रामाण्यमप्यस्तीति विकल्पवन्नास्तीति विकल्पस्य प्रापकत्वान्न वार्यते। ननु न विधिकल्पस्य तत्र प्रामाण्यं किन्तु दर्शनमेव स्वाकारार्पणात्तद पतामापन्नं वस्तु प्रापयत् प्रमाणम् ।प्रतिषेधविकल्पेऽपि दर्शनस्यैवंरूपता किमिति न कथ्यते। श्रथ विधिविकल्पस्य पारम्पर्येण विषयो नीलादिः स प्राप्यते । प्रतिषेधविकल्पस्य तु यो विषयस्तस्य न कथञ्चित्प्राप्तिरिति तदाकारतामापन्नं दर्शनेन तत्र प्रमाणं, कथं न प्राप्तिर्यता नीलं प्राप्यमाणं सत्प्रत्येत्याविनाभूतपीताद्यसंसृष्टम् । प्राप्यं तु न शुद्धम् । तस्याश्च पदार्थव्य. वस्थानिबन्धनायाः प्रच्युतेः कथञ्चित्प्राप्तिरस्तीति कथं न तत्र दर्शनं प्रमाणम् ? । तदनभ्युपगमे च पदार्थव्यवस्था नास्तीत्युक्त तैर्लाक्षणिकविरोध प्रदर्शयद्भिः । कल्पितायास्तस्याः सर्वाभ्युपगमाददोष इति वेदे तन्नातिश्रुभाषितनमकाल्पनिकवस्तु व्यवस्थापकत्वं कल्पितत्वं च ॥ अथोच्येत । तस्याः प्रापकत्वेऽपि कथञ्चिद्दर्शकं न प्रमाणम् । तदर्थ क्रियाकरणात् । ननु केयमर्थक्रिया ? । यामसौ न करोति। नीलादिसाध्यमिति चेत्। तन्न नीला