________________
प्रत्यक्षपरिच्छेदः। पता । कः पुनस्तद्पता, यो दोषः ? । न कश्चित्तदसत्वव्य. तिरेकेण । यथा हि ग्राहकाकारे वृत्तिविकल्पादिबाधकं प्रमाण प्रवृत्तमसत्व प्रतिपादयति । तथ तद्व्यतिरिक्त स्थापि बोधा. कारस्यासत्वमावेदयेत् तदकार्यकारणभूत एव ग्राह्यत्वेनाभिमतो भाव: प्रतिभाति, तद्वदमाधोऽपि। नन्वेवमजनक स्यामावस्य प्रतिभास्यत्वे सर्वदाऽभावप्रतीतिः स्यात् । स्यादयं दोषो यदितद्ग्रहकप्रमाणोपपत्तौ निमित्त सर्वदा स्यात् । किं पुनस्तद्यत्सर्वदा न भवति ? । प्रतिषिध्यमानं पदार्थस्मरणं भावोपलम्भश्च । अतः प्रमाणोपपत्तिनिमित्तान्वयव्यतिरेकानुविधानात् कादाचित्कत्वममावग्राहिणो न त्वमावस्य । जनकत्वात्तस्य सदैव भावात् । तत्प्रमाणान्तरमभावः । एवं केचिदाहुः । अन्ये ब्रुवते । प्रभावस्य प्रतिभासजनकत्वं किमक्षणिकत्वान्नेष्यते, आहोस्थित प्रतिमासजनकत्व न मावाद्वैलक्षण्यं न स्यादित्यु. ज्यते । । यदि पूर्वः पक्षस्तदेतत् प्रतिभासमाधास्यते । क्षणभङ्गभङ्ग यथा भावस्याकिञ्चित्करस्य सहकार्यपेक्षस्य कार्यजनकत्वं, तथाभावस्यापीति वक्ष्यते । अथ द्वितीयः । सोऽपि न युक्तः। न हि जन्यत्व जनकत्वादै लक्षण्यानुपपत्तिः । एवं ह्यवैलक्षण्ये जगति न किंचित्कुतश्चिद्विलक्षणं भवेत् । पूर्वोक्तस्य निमित्तद्वयस्य सम्भवात् । अथ तस्मिन् सत्यपि हेतुभेदात्प्रतिभामते, भेदाच्च भावानां विलक्षणता तद्वदभावेऽपि स्यात् । अथोच्यते । सर्वसामोपाख्याविरहलक्षणमसत्वं तदेव चाभावोऽतः कथं तस्य जनकत्वम् ? । न सामर्थ्यलक्षणं सत्वम् । तस्य क्षणमङ्गभङ्गे निषेत्स्यमानत्वात् । तदभावस्य प्रतिभासाजनकत्वादप्रमेयत्वमयुक्तम् । अथ न पूर्वोक्त न निमित्तेन तस्याप्रमेयता, किं तु भावाव्यतिरिक्तस्य तस्यासंभवात् । एवमुच्यते । एतदसद् पाद्र |