________________
जैनवार्तिकवृत्तौ ।
स्तोत्यते।ऽयमदोषः । नैतच्चारु तस्याभयरूपत्वे पूर्वोक्तदोषानुवृत्तेः । एतच्च भवद्भिरेवेोपगतम् । स्वरूपेण तु न सन्नसन्निति वदद्भिस्तद्विधिस्वभावत्वादस्तीति विकल्पं जनयेत् न प्रतिषेधविकल्पम् । अतद्रूपत्वात् । अस्ति च प्रतिषेधविकल्पो भवतां मते स्वसंवेदन प्रत्यक्ष मिदुः । स च विषयभेदात् प्रमाणान्तरम् । ननु प्रतिषेवविकल्पस्याभावविषयत्वं तस्याऽजनकत्वेन प्रतिक्षिप्तम् ।
1
अत्र केचिदाहुः । भावेऽयं नियमो जनकस्य प्रतिभासोऽ भावस्वजनकोऽपि स्फुष्टप्रतिभासोत्पत्तेः प्रतिभासत इति कमुवालभेमहि । न च प्रतिभामापलापो युक्तः । श्रपि च भावेऽव्ययं न नियमः । जनकस्यैव भावस्य प्रतिभासो यः प्रतिभासे प्रतिभाति ग्राह्याकारो वर्तमानावछिन्नः, तस्य प्रतिभासमामकालत्वेन जनकत्वं यस्य जनकता तस्यासीतत्वात् । तन्न प्रतिभासः । तत्रैतद्भवेत् । जनकस्य न साक्षात्प्रतिभासः किं तु स्वारजनमेव तस्य ग्राहकत्वं न तु प्रतिभासमानकालत्वेन तदभावस्य सामर्थ्यं तथाविधं ग्राहकत्वेन संभवति ।
अत्र वदन्ति । कथमसौ प्रतिभासमानकाल छाकारोऽनुपकारकस्वत्र प्रतिभाति । न चान्यस्योपकारकत्व उन्यप्रतिभासः । अतिप्रसङ्गात् । एकसामग्रयधीनत्वं नातिप्रसङ्ग निवारणं प्र. तिक्षिप्तम् । किञ्चोपकार्या भावाज्जनकस्य भावस्य ग्राह्यत्वेन परिकल्पितस्योपकारकत्वमनुपपन्नम् । ค 'च ज्ञानप्र तिमास्याकार उपकार्यः । तस्य स तत्वतोऽसत्वेनाभ्युपगमात् । अतः कथंभावस्यापकारकत्वम् ? । मा भूत् ज्ञानाकारस्योपकार्यता । ज्ञानं तु परमार्थं सद्विद्यते तदपेक्षयोपकारकत्वं भविष्यति । एतदपि सज्ञान प्रतिभासिन श्राकारस्या परमार्थमत्वे तदव्यतिरेकज्ञानस्याप्य सत्वप्रसङ्गस्तस्य बोधरू