SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ जैनधार्तिकवृत्ती। ८५ दृश्यते । तत्रैवमभावे ग्रन्यकारैः पदार्थसंकाराख्यो दोषः प्रतिपादितः । क्षीरे दधिभवेदेवमित्यादिना। परात्मनाऽसत्त्वाभ्युपगमे पूर्वोक्तमसामञ्जस्यं प्रतिपादितम् । अथ ब्रूयात् स्थादयं दोषः । यदि स एव भावः पररूपेणासन्न भवेत् किंतु पररूपेणासत्त्वं धर्मिणो धर्मस्तदा च द्वघात्मकः पदार्थोऽभ्युपगता भवति । तदुक्तम् । स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । . वस्तुनि ज्ञायते किञ्चिद्रूपं कैश्चित् कदाचन ॥ न च तयोक्षिामावलक्षणयोरंशयारनेन प्रकारेणाभेद उक्तः । येनायं दोषः स्यात् । किंतु कथं चिद्धदस्याभ्युपगमादुक्तम् । धर्म यो द इष्टो हि धर्मदेऽपि नः स्थिते। अथोक्तम् । एकात्तिको भेदस्तु तयोः कथञ्चिद्वाभेदस्तावदिष्टः । तथा सति मावस्य' घटाख्य स्यामावां. शेऽपि तेन पदार्थान्तरात्पटाख्या यथासंकीर्णता, एवं भावाश्रयैरपि । ततश्च पटादिभावांशादापि तेनासंकीर्णनाभावान्तरेण भाव्यम् । तस्मादप्यसंकीर्णत्वाभ्युपगमेग्नवस्था प्रदर्शितैष । तन्नाभावांशाभ्युपगमेनापि पदार्यान्तरत्वात् पदा. र्थान्तरस्य व्यावृत्तेर्वस्त्वसंकरसिद्धिः । किं तु स्वहेतुतः समुपजायमानामावाः परस्परासंकीर्णस्वभावा एवोपजायन्ते । अन्य था पूर्वोक्तदोषप्रसङ्गः। तदुक्तम् । सर्वे भावाः स्वस्वभावस्थितयो नात्मानं परेण मिश्रयन्ति । तन्नास्तीति व्यवहारमात्रम् । न त्वभावो नाम तज्ज्ञानगम्यःकश्चि द्विद्यते।भाव एवैकदास्त्यन्यदा स एवन, नतु तस्याभावः । यतो भावैकपरमार्था भावाः । स्वरूपे, पररूपेण तु न सन्तो नाप्यसतः । तथाभ्युपगमे पूर्वोक्तदोषानि -
SR No.022458
Book TitleJain Tark Vartikam
Original Sutra AuthorN/A
AuthorVitthal Shastri
PublisherBhagavati Prasad
Publication Year1917
Total Pages170
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy