________________
प्रत्यक्ष परिच्छेदः ।
सर्व संबन्धिता वा? | पूर्वस्मिन् पक्षे विशेषो वक्तव्यो येन तस्यैवासौ नान्यस्येति + । तनिवृत्तिस्वभावत्वादेवं भविष्यतीत्यपास्तम् । अकिञ्चित्करत्वेन तस्याः । यथा ह्यौ तत्राकिञ्चिकार्यपि तस्य निवृत्तिस्तथा त्रैलोक्यस्यापि किमिति न भवति । सम्नेक भाव संबन्धिनामपि सर्वसंबन्धिता । एकस्य विनाशोत्पादे वा सर्वस्य विनाशोत्पादप्रसङ्गात् । न चैवमस्ति । तन्नाभावस्य केनचित् संबन्ध: । तस्मात् कल्पनामात्रदर्शित एवाभावो न read: कश्चिदस्तीति स्थितम् । अत्राहुः । एवमभावनिराकरणे पर्युदासस्यैको न अर्थ: स्यात् तत्र च द्वयो गतिः । वस्त्वन्तरस्य सत्ताऽन्यस्याभावः । पदार्थान्तरत्वेन वा भावविलक्षणस्याभ्युपनतस्योत्तरस्मिन् पक्षे प्रसज्यप्रतिषेधे यो दोष उक्तः, सोऽत्राप्यपरिहार्यः । न हि पदार्थान्तरोत्पत्तौ स्वरूपेणाप्रच्युतस्य भावस्य पूर्ववदुपलठध्याद्यकरणम् । निवृत्तौ वा स्वयमेव तस्य निवृत्त व पदार्थान्तरोत्पत्या किञ्चित्ततोऽन्यतरः पक्षः । नापि पूर्वत्र स
एव भावोऽन्यापेक्षयाऽभावस्तमश्च घटस्य प्रध्वंसः कपाउसत्ता । यदा च कुतश्चिनिमित्तात्तेषां प्रध्वंसस्तदा गत्यन्तराभावाट्टस्याभावे प्रतिषिद्ध सत्तया भाव्यम् । न चैतदृष्टम् । किं च यथा कपालानां सत्ता घटस्याकिञ्चित्कार्यः प्रध्वंसस्तथा त्रैलोक्यस्यापि वा प्रसज्येत । ततश्चैकविनाशे सर्व विनाश:, एकोत्पादे च सर्वोत्पाद: । तथा हि दभः प्रागभावः क्षीरमात्रम् । तनिवृत्या तस्योत्पादात् । यथा च प्रागभावठपावृत्त दउत्पत्तिरेवं पदार्थान्तरस्यापि । तस्यैवासौ प्रागभावः प्रध्वंसो वा । तेन न पूर्वोक्तो दोषः । प्रत्रोक्तम् । तेन सह संबन्धे विशेमहेतुभावः तत्प्रसज्यप्रतिषेधे पर्युदासरूपस्याभावाख्यस्य प्रमेयस्याभावात् कथं तत्प्रतिपत्तिः 1 कुतश्चिलिङ्गाद्