________________
जैनवार्तिकवृत्तौ। न भवति । न च तथाऽभवन्नभावेन विरोधमपेक्षते । तस्यान्य विरोधिजन्यत्वात्, । अथोच्यते । यथा मुद्गरापेक्षयासी घटो न भवति, तथा संबन्धाभावापेक्षया न भविष्यतीति किमत्रानुपाम्? । नन्वेतदेव, यत्तयोरसमानकालत्वम् । समानकालत्वे हि तयोर्विरोधाविरोऔ चिन्त्येते । नन्वेवमेवापि च मुद्रा. दिवत्तस्य विरोधकत्त्वाभ्युपगमेऽनवस्थाप्रसक्तिः । यथा मुद्गरो घटस्थामावजनकत्वात्तद्विरोधी, एवमभावोऽप्यमावान्तरजनकत्वेन। न च तदप्येवामित्यनवस्था। न वा किञ्चित्करादेरुत्पन्नस्य पदार्थान्तरस्य तथात्वव्यपदेशः । तन्न भावामावयोर्विरोधोऽपि संबन्धः । किं च तस्य शास्त्रे कार्यकारणभावत्वेन स्थापितत्वा. मुद्गराद्यपेक्षा, तस्याऽसमर्थतरासमर्थतमेत्यादि । न तु तस्य तदपेक्षया निवृत्तिः । स्वयमेवैकक्षणस्थायित्वेन स्वहेतोरूपप. सत्याना मुद्राद्यपेक्ष्यसो निवर्तते । स्वयमेव निवृत्तत्वात् । अ. न्यथा तन्निवृत्त्ययोगात । तस्मान भावाभायोः कश्चित् संबन्धः। तदमावा तस्य प्रतिपत्तिः । न हि भाववदभावो देशाद्यनपेक्षः स्वतन्त्रः प्रत्ययविषयो यस्मात्तस्य प्रतिपत्तिः, न हि भावपदस्ति । कञ्चिनिमित्तमात्रम् । तत्र प्रमाणगोचरः । यच्च प्रतीयते देशाद्यपेक्षं तन्निरूप्यमाणं न तत्वतोऽस्तीति कथमभावः प्रमेयः स्यात् ? । तद्भाव एवैकदास्ति । पश्चात्स एक न । नतु तस्यपश्चा. दभावः । इतश्च तस्य निरूप्यमाणं तत्वमस्ति । यतोऽसौ सवनधर्मा भवेदन्यथा वा? । पूर्वस्मिन् पक्षे वस्तुन्येवाभाव इति नाम कृतं स्यात् । उत्तरस्मिन्नपि सर्वपदार्थानामसरवप्रसङ्गः । सत्त्वाभ्युपगमेन तस्यानित्यताद्यभावादवश्यंभाविनी नित्यता । ततश्च विरोधिनः सर्वदा सविधानादावो जगति नाममात्रेणाप्युच्छिद्येत । अपि च तस्यैकमावसंबन्धिता भवेत्,