________________
प्रत्यक्षपरिच्छेदः। नापि भावसंबन्धिता तस्य युक्ता । तयोभित्रकालत्वात । यदा घटाख्यो भावो न तदा तदभावः । यदा तु तस्यासत्वं न तदा घटोस्तीति कथं तस्य तत्संबन्धिता ? । न च स्वत
त्रस्य प्रतिपत्तिरत्रैवमुच्यते घटो नास्तीति तयोः समानाधिकरणप्रत्ययविषता, तत्कथं नीलोत्पलादिवत्तयोः संबन्धाभावः अस्त्ययं प्रत्ययः, स तु मंबन्धं विना भवन्मिथ्यात्वेन व्याख्यातृभियवस्थापितः । यतो न प्रतिभासनिबन्धनं सत्त्वम् । तन्निबन्धनत्वे तस्य नेदानों किञ्चिद्भवेत् । प्रतिभासस्यास. स्वेऽपि सत्ववदुपजायमानत्वात् । तस्माद् घटस्यामा इति प्रत्ययो मिथ्या । विशेषणविशेष्यभावश्च संबन्धस्तयोरस्तीति न तस्य संबन्धपूर्वकत्वेन स्थितत्त्वात् कथमत्र तद्भाव: । अन्यथा पुरुषेच्छायत्तयोविपर्ययो न स्यात् । दृश्यते च तदिच्छया विप. र्ययः । कदाचिद्विशेषणत्वेऽपि व्यवस्थितं पूर्व पश्चाविशेष्यस्वेन विवशत्येवं विशेष्येऽपि दृष्टव्यम् । उभयोरुभयरूप. त्वाददोष इति चेत् । तदनन्तरयोरसंबन्धप्रसङ्गात् । न विशेष्यस्य विशेषणेन संबन्धो, नापि विशेषणस्य तथाविधः । नापि चोभयोचिरूपत्वे सर्वदा तयोईिरूपा प्रतिपत्तिर्भवेत् । न चैतदृष्टम् । तस्मान्न घटस्थामाव इति तयोर्विशेषणविशेष्यभावो मा भूत् । असौ विरोधस्तु तयोरस्तीत्येवमभिधानमेतदसत् । तस्मिन् मति सबन्धित्वेन प्रतिभासो न स्थादपि तु विरुद्धत्वेन । मुद्गरादिवत् विरोधोऽप्यवस्थाप्यमान एवं व्यवतिष्ठते । याभावे मति भावो न स्यात् । प्रकाश इव तमः । न त्वेवमत्रास्ति । न हि घटे विद्यमाने कुतश्चित् स्वस्मानिमित्तादनावो भवन् मावं विरुद्ध । प्रकाशवदेव । किं तु स्वस्मान्मुद्गरादेर्विरोधिनः प्रत्ययात् स्वयमेव