________________
प्रत्यक्ष परिच्छेदः ।
न्धग्रहणकाले धूमेन प्रतिबन्धग्रहः । प्रमाणान्तरसद्भावे तदेवाऽ भावस्यानुमेयस्य प्रतिपादकमस्तु किमनुपलब्ध्या ? | अनवस्था च तया प्रतिबन्धग्रहणे ग्रन्थकारैर्दर्शिता । तनोपलब्धिः प्रतिषेधो ऽनुपलब्धिर्लिंगताप्यन्योपलब्धिः । विकल्पानुपपत्तेः । तस्या लिंगत्वे तद्गम्यं वस्तु वा स्यात् प्रतिषिध्य मानवस्त्वभावो वासद्व्यवहारी वा ? । न तावद्वस्तु । तस्य प्रमेयत्वेऽपि अनुपलब्ध्यारव्यलिङ्गागम्यत्वात् । नापि वस्त्वभावः । तस्य तया सह पूर्वोक्तन न्यायेन प्रतिबन्धग्रहणासम्भवात् । श्रसद्व्यवहारश्चेत् । एतदुक्तं भवति । यद्यपि परमते भूतलोपला उर्घटाभावं प्रति पूर्वोक्तेन क्रमेण लिङ्गता, तथापि तस्या । तद्रूपत्वं प्रतिषेदुमशक्यं त्वया । यतः पदार्थान्तरोपलब्धिस्वभावा सा च स्वसंवेदनप्रत्यक्षमिद्धा । प्रमेयमपि तस्या न वस्त्वतरं नापि वस्तुप्रतिषेधः । तस्य गृह्यमाणवस्तुव्यतिरेकेण सत्वात् । अत एव तेन सह प्रतिबन्धग्रहणं मृग्यम् । सद्व्यवहारस्तु तयसाध्यते, स च तस्मान्निमित्तात्पूर्वमसत्त्वप्रवृत्तैनं प्रवश्यते । किं तर्हि क्रियते समयस्मरणमात्रं तथा । तथा चोक्तम् । स्मर्यते समयः परम् । अयमर्थः । शशविषाणादावसत्वव्यवहारभवतोऽस्मानिमित्तान्नान्यत्किंचित्पर्व प्रवृत्तम् । न च तेषु कश्चिदपि सद्व्यहारं करोति । न चोक्तनिमि 'तव्यतिरिक्तस्य निमित्तान्तरस्य सम्भवो यथा तदसंभव:, तथा वादन्याये निर्णीतमिति नेहोच्यते । ग्रन्थगैारवयात् । श्रते। स्तन्मात्रनिबन्धनोऽसद्व्यावहारस्तया साध्यते । ननु ज्ञानाभिधा नस्वभावोऽसद्यवहारोऽभिप्रेतः स चानुपलब्धेः पूर्वोक्तायाः साध्यमुक्तः, सा च स्वभावहेतावन्तर्भाविता, तस्यास्तस्मादर्थान्तरत्वे कथमन्तर्भावः । नैष दोषः । नात्र तया स साध्यते । तस्य
निबन्धनं
८०
4