SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ जैनवार्तिकवृत्तौ। अनुमानेन ग्रहणेऽनवस्था, सैवं न भवेद्यदि मूलभूतं तद्ग्राहक क्वचिदुपेयते ॥ नापि सामान्यतो दृष्टालिङ्गात्तदवगतिः ॥ कार्यदेलिङ्गस्याभावात्, अनुपपद्यमानस्य चाभावाद_पत्तिरिति नानाप्यागमस्तत्र प्रतिपादकः । तस्य लौकिकवैदिकभेदेन द्विधा स्थितत्वात् । लौकिकस्य प्रत्यक्षानुमाननिषेधेन निषेधः, वैदिकस्याप्यनुष्ठे यविषयप्रतिपादकस्य न तत्प्रतिपादने व्या. पारः । यदपि वैदिकं वचाउसद्वादमग्र पासीदित्यादि । तद वादत्वन स्वरूपप्रतिपादकं न भवति इति व्याख्यातम् । नाऽप्युपमानस्याऽभावो विषयः । तस्य द्विविधस्यापि प्रमेयान्तरप्रतिपादनात,। एतच्च तत्प्रत्यक्षनिषेधेनाऽनुमानमभ्युपगम्योक्तं न तु तत्प्रतिपत्तेः किञ्चिलिङ्गमस्ति । न तावद्भावः । तेन मह पूर्व क्वचिदप्यदृष्टत्वात् । दर्शनेपि व्यभिचारसम्भवात्,। यत्र यदभावो गृहीतस्तत्र तद्धावस्यापि क्वचिद्ग्रहणात् । अयभिचारे वातयोर्यस्मादेव व्याप्तिग्राहकात प्रमाणातदवगमस्तदेव प्रमेयप्रतिपत्ती निमित्त भविष्यतीति किं भावाख्येन लिङ्गेन ? । एतेन तत्प्रत्तिपत्तिरप्यभावलिङ्गत्वेन निराकृता। नाप्यनुपड धेः प्रतिषिध्यमानवस्त्वग्रहणस्वभावाया लिङ्गता। तस्याः स्वरूपानिश्चयात् । न तावत् प्रतिषिध्यमानवस्तूपलब्धिप्रतिषेधोउनुपलब्धिः। तस्या प्रभावत्वेन ग्रहणासम्मेवे लिङ्गत्वानुपपत। न च तथाविधेनान्येन लिङ्गेन तद्ग्रहणम् । अनवस्थाप्रसङ्गात् । न चागृहीताया लिङ्गता । भवतु वा तस्याग्रहणं, तथाऽपि स्वसाध्येन संम्बन्धग्रहणं पूर्व वक्तव्यम् । न हि पक्षधर्मत्वनिश्च यमात्रादनुमेयप्रतिपत्तिः । सम्बन्धग्रहणाभ्युपगमे वा तत्र प्रमाणं वक्तव्यम्। न तावत् सैव प्रमाणम् । तद्व्यतिरिक्तनान्येन तयाः सम्बन्धग्रहणाभ्युपगमात् । न हि धूमान्योः प्रतिष
SR No.022458
Book TitleJain Tark Vartikam
Original Sutra AuthorN/A
AuthorVitthal Shastri
PublisherBhagavati Prasad
Publication Year1917
Total Pages170
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy