________________
जैनवार्तिकवृत्ती।
यदेवं न भवति तत्सकलमेव परोक्षं व्यवस्थापयति । तथा परोक्षमप्यनिदन्तया स्वविषये प्रवर्तमानं ततो अन्यत्प्रत्यक्ष. मिति व्यवस्थापयति । न च परस्परमन्वयात् कस्य द्वयप्रतीतिरिति वाच्यम् । यस्मान ज्ञानमात्मनः सर्वथा भिवं किं त्वात्मैव कर्मक्षयोपगमादिन्द्रियद्वारेण लिङ्गद्वारेण वा स्पष्टास्पष्टतया वस्तु प्रतिपद्यत इति कथमन्वयः ?"
तदेवं विषयद्वैविध्यं व्यवस्थाप्येदानीं तयोर्लक्षणमाह । दूरासन्नत्यादि । दूरं चासकं च ते आदिर्यस्य स्वच्छावरणघनावरणादेः स तथा, दूराममादिश्चासी भेदश्च तेन प्रतिभासन्ते । ज्ञानस्य स्पष्टास्पष्टत्वं यद्वस्तु करोति तत्प्रत्यक्षम् । तथा हि-प्रत्यक्ष प्रतिमासमानं दूरे घनावरणाछादितं चास्पष्टं, निकटे स्वछावरणवत्तं च स्पष्टम् । नैवं धूमात प्रतीयमानो बहिः । दुरावादिष्वप्येकरूपतयो प्रतिभासनात् । अत एवाह । तत्प्रत्यक्षं परोक्षं तु ततोऽन्यद्वस्तु कीर्तितम् । तनिमित्तं द्विधा मानन त्रिधा नेकधा ततः ॥२॥
पूर्वाचारिति । इह प्रामाण्यं यद्यनिमित्त स्यात् सर्वत्र भ. वेत् । न चार्थवत्वमन्तरेणान्यनिमित्त संभवति । न धन केन जानमात्रेण कस्यचित्प्रयोजनं हिताहितार्थ च। तदुक्तम् । अतो विषयवतया प्रामाण्यं व्याप्तं तदभावात्प्रत्यक्ष परोक्षाभ्यामन्यस्य न प्रमाण्यमत माह । तनिमित्तं द्विधा मानं न विधेति। विधेत्युपलक्षणं चतुर्थादेः । प्रयोगश्च यदर्थवा भवति, तमा प्रमाणम् । यथोमयाभिमतं मिथ्याजानम् । नास्ति च प्रत्यक्षपरोक्षव्यतिरिक्तस्य जानस्यार्थबस्वमिति । व्यापकानुपलब्धि.